SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकः शङ्कादि, कामकुम्भकलशः, चिन्तामणी मणिविशेषः, चित्रकवल्लिलताविशेषः, 'एतन्मुख्याः'-एतदाद्याः पदार्थाः, 'इह'-अस्मिन् संसारे, 'कानीन्द्रियाणि '-श्रोत्रादीनि, 'वहन्ति '-दधति, यत् ते दक्षिणावर्तकादयः 'अर्चिताः'-पूजिताः सन्तः, 'जनानाम्'-मनुष्याणाम् , 'मतमभीष्टम्'-मनोवाञ्छितमित्यर्थः, 'प्रकुर्वन्ति'-कुर्वते ॥२७॥ मूलम्-वस्तुस्वभावाचदमी अजीवाः, स्वतोऽस्पृहावन्त इहाऽगिकामान् । ' यच्छन्ति यवत् खलु पारमेशी, पुण्यस्य सिद्धयै प्रतिमार्चिता तथा ॥ २८ ॥ टीका-दान्तिविषयमाह-वस्त्वित्यादिना 'यदि ति निश्चयेन, 'यद्वत् '-यथा, · अजीवाः '-जीवरहिताः, | 'अमी'-पूर्वोक्ता दक्षिणावर्त्तकादयः, ' स्वतः'-स्वयं, 'अस्पृहावन्तः'-स्पृहारहिता अपि, 'वस्तुस्वभावात् '-स्वगत स्वभावविशेषेण, ' इह-अस्मिन् संसारे, 'अङ्गिकामान् यच्छन्ति'-प्राणिमनोरथान् ददति, तथैव'-तेनैव प्रकारेण, । 'खल्वि 'ति निश्चयेन, 'पारमेशी प्रतिमा '-परमेशसम्बन्धिनी मूर्तिः, 'अर्चिता'-पूजिता सती, 'पुण्यस्य सिद्ध्यै '-धर्मसाधनाय भवति ॥ २८॥ आप्तनियुक्तवस्तुनः विशेषमान्यतां नवभिः श्लोकैराहमूलम्-सत्यं मुने ! ऽदोऽस्ति परं य एते, स्युदक्षिणावर्त्तमुखाः पदार्थाः । अजीववन्तोऽपि विशिष्टजाति-भेदात्तथादुर्लभवस्तुभावात् ॥ २९॥ १. यथा । २. परमेशस्य इयं पारमेशी। ३. अप्राणिनः । SASARAMAKA
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy