________________
सप्तदशोऽधिकारा
तत्त्वसार टीकायाम्
.१२१ ॥
प्तये भवति, अत्र दृष्टान्तमाह-यथाहीत्यादिना ' यथाही' ति तद्यथेत्यर्थः, 'वे 'ति निश्चयेन, 'च' शब्दश्चरणपूतौं, 'कस्यचित् -कस्याऽपि, 'अस्पृहावतः '-स्पृहारहितस्य, निरभिकांक्षस्येतिभावः, 'सिद्धस्य '-सिद्धि प्राप्तस्य जनस्य, 'सेवनं'-सेवा, ' इष्टलब्धये '-अभीष्टपदार्थप्राप्तये भवति ॥ २५॥
प्रतिमा अजीवाऽपि तया पुण्यसिद्धिं श्लोकत्रयेनाहमूलम्-सिद्धस्तु साधो ! वरिवर्ति साक्षा-देशी त्वजीवा प्रतिमा प्रतिष्ठिता।
नाऽयं विचारः परिपूजनीये, द्रव्ये यतः पूज्यत एव पूज्यः ॥ २६ ॥ टीका-अत्राऽऽशङ्कते-सिद्धस्त्वित्यादिना ' हे साधो!' हे श्रेष्ठ :, 'तु' शब्दो भिन्नक्रमद्योतनार्थः, 'सिद्धः'-सिद्धिं प्राप्तः, “ साक्षात् '-प्रत्यक्षेण, ' वरिवर्ति'-विद्यते, प्रत्यक्षेण फलप्रदो दृश्यत इतिभावः, 'तु'-परन्तु, 'ऐशी प्रतिमा'ईशसम्बन्धिनी मृतिः, 'अजीवा प्रतिष्ठिता'-जीवरहिता स्थिताऽस्ति, अस्योत्तरमाह-नाऽयमित्यादिना 'अयं'-पूर्वोक्ता, | 'विचारः'-विमर्शः, 'परिपूजनीये द्रव्ये-पूजाहे पदार्थे, न भवति, अत्र हेतुमाह-यत इत्यादिना 'यतः'-यस्मात् कारणात् , 'पूज्य:'-पूजाहः, 'पूज्यत एव'-निश्चयेनाऽर्च्यते ॥ २६ ॥ मूलम् यद्दक्षिणावर्तककामकुम्भ-चिन्तामणिचित्रकवल्लिमुख्याः।
कानीन्द्रियाणीह वहन्ति यत्ते-ऽर्चिताः प्रकुर्वन्ति मतं जनानाम् ॥२७॥ टीका-अजीवप्रतिमापूजनेऽपि फलं भवतीत्याह-यद्दक्षिणेत्यादिनां यत्'-यस्मात् कारणात , ' दक्षिणेत्यादि'
1549-%A4%A5%2545
॥१२१॥