________________
प्रतिमायाः पूजनात् , ' अर्चितो भवेत् '-पूजितः स्यात् ॥ २३ ॥
नीरागिनिःस्पृहिसेवया परमार्थसिद्धिं श्लोकद्वयेनाहमूलम्-सत्यं बुधैतत्परमत्र यस्मा-द्विशेष एषोभिनिरीक्ष्यते महान् ।
देवा यदेते किल सन्ति रागिणः, पूजार्थिनो नो भगवान्स ईदृशः ॥ २४ ॥ टीका-अत्र प्रश्नयति-सत्यमित्यादिना 'हे बुध !'-हे पण्डित', 'एतत् '-पूर्वोक्तम्, 'सत्यं '-यथार्थमस्ति, 'परं'-परन्तु, 'यस्मात् '-कारणाव , ' अत्र'-अस्मिन् विषये, 'एषः'-वक्ष्यमाणः, 'महान् विशेषः '-प्रभूतो भेदः, 'अभिनिरीक्ष्यते '-दृश्यते, यत् ' एते '-प्रसिद्धाः, 'देवाः'-सुराः, 'किले 'ति निश्चये, 'रागिणः'-रागयुक्ताः, तथा 'पूजार्थिनः सन्ति '-पूजाभिलाषिणो वर्तन्ते, परन्तु 'सः'-पूर्वोक्तः, 'भगवान् '-ऐश्वर्यादियुक्तः केवली, 'ईदृशः'-- इत्थं प्रकारो, 'नो'-नैवास्ति, अन्ये देवा रागिणः पूजार्थिनश्च सन्ति, परन्तु स भगवान् रागी पूजार्थी च नास्तीतिभावः ॥२४॥
मूलम् तदा त्वतीवास्तु बरं यतः स्या-दनीहसेवा परमार्थसिद्धये ।।
यथाहि सिद्धस्य च कस्यचिद्वा, स्पृहावतः सेवनमिष्टलब्धये ॥२५॥ टीका-अस्योत्तरमाह-तदा वित्यादिना 'तु' शब्दः पूर्वोक्तक्रमदर्शनार्थः, 'तदा'-तर्हि, 'अतीव वरमस्तु'अत्यन्तं श्रेष्ठमस्ति, 'यतः'-यस्मात् कारणात् , 'अनीहसेवा'-नि:स्पृहदेवसेवनं, 'परमार्थसिद्धये स्यात् '-पारलौकिकसुखप्रा