SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 'चिन्तामणिमुख्य '-चिन्तामण्यादि वस्तु, 'निजकस्वभावात् '-स्वस्वभावेन, 'प्रधानम् '-मुख्यमस्ति, परन्तु 'भुवि 'पृथिव्याम् , संसार इतिभावः, 'पारमेश्वरं बिम्बं'-परमेश्वरसम्बन्धिनी प्रतिमा, 'ततोऽपि'-तस्मादपि, चिन्तामण्यादिवस्त्वपेक्षयाऽपीत्यर्थः, 'मान्य '-मानार्हमस्ति, अत्र हेतुमाह-यत इत्यादिना 'यतः'-यस्मात् कारणात् , ' तत् '-पारमेश्वरं बिम्ब, ' अत्र'-अस्मिन् संसारे, 'पञ्चभिः'-पञ्चसङ्ख्याकजनैः, 'पूजितम् '-अर्चितम् ।। ३५ ॥ मूलम्-लोके यदेवाहतमस्ति पश्चभिः, तदेव मान्यं क्षितिपैरपि ध्वम् । यथा विवाहार्थनृपाः महाजना, न्यायाङ्किपुत्रावपरेऽपि चेत्थम् ॥ ३६॥ ये पञ्चभिस्तत्कृतभाग्यनोदा-त्संस्थापिताः सन्ति त एव मान्याः। तथा स्वपूजाह्वयकर्मवीयों-त्कृताऽस्ति यैशी प्रतिमा सकाऽा ॥ ३७॥ टीका-उक्तविषय एव पुष्टिमाह-लोक इत्यादिना 'लोके'-संसारे, 'यदेव'-वस्तु, 'पञ्चभि:'-पञ्चसङ्ख्याकजनैः, 'आदृतमस्ति'-सत्कृतं वर्तते, 'तदेव'-वस्तु, 'क्षितिपैरपि 'ध्रुवं'-निश्चयेन, 'मान्य'-मानार्हम् , आदरणीयमितिभावः, भवति, अस्योदाहरणमाह-यथेत्यादिना ' यथा'-येन प्रकारेण, 'विवाहार्थनृपाः'-वरराजाः, 'महाजना:'-श्रेष्ठिनः, तथा 'न्यायाङ्किपुत्रौ'-धर्मपुत्रः, उत्सङ्गिपुत्रश्च, 'इत्थम् '-अनया रीत्या, 'च' शब्दश्चरणपूत्तौं, 'अपरेऽपि '-अन्येऽपि, 'तत्कृतभाग्यनोदात् '-स्वस्वभाग्यप्रेरणेन, 'ये ''पञ्चभिः'-पश्चसङ्ख्याकजनैः, ' संस्थापिताः सन्ति'-स्थापनां १. पालक । २. सा ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy