________________
मृलम्-रेवन्तनागाधिपपश्चिमेश-श्रीशीतलादिप्रतिमा अजीवाः।
सम्पूजितास्तद्गतकार्यसिद्धिं, कुर्वन्ति यच्च तथाऽधिपार्चा ॥२०॥ टीका-उदाहरणान्तराण्याह-रेवन्तेत्यादिना 'यद्वत् '-यथा, 'च' शब्दश्चरणपूर्ती, रेवन्तनागाधिपपश्चिमेशश्रीशीतलादिप्रतिमाः'-रेवन्तप्रतिमा, नागाधिपप्रतिमा, पश्चिमेशप्रतिमा, श्रीप्रतिमा, शीतलादीनां च प्रतिमाः, 'अजीवा'जीवरहिताः, ' अपि सम्पूजिताः'-अर्चिताः सत्यः, 'तद्गतकार्यसिद्धिं कुर्वन्ति'-स्वसम्बन्धिकार्याणाम साधनं विदधाति, ' तथा 'तेनैव प्रकारेण, अधिपार्चा'-स्वामिप्रतिमा अपि समर्चिता 'तद्गतकार्यसिद्धिं कुर्वन्ति'-स्वसम्बन्धिकार्याणाम् साधनं विदधाति, ' तथा '-तेनैव प्रकारेण, 'अधिपार्चा'-स्वामिप्रतिमा अपि समर्चिता तद्गतकार्यसिद्धिं करोति ॥२०॥
मलम-ये कार्मणाकर्षणवेदिनस्तथा, नाम्नैव येषां मदनादिपत्रके।
निर्जीवके तं विधिमाचरन्त्यहो, यस्मात्सजीवानपि मूर्च्छयन्ति तान् ॥२१॥ टीका-अत्रैव पुष्ट्यर्थ उदाहरणमाह-य इत्यादिना 'तथे' ति समुच्चये, 'ये'-जनाः, 'कार्मणाकर्षणवेदिनः'मूलकाकृष्टिकर्मप्रयोगज्ञातारः सन्ति, ते 'निर्जीवके '-जीवरहिते, 'मदनादिपुत्रके '-मदनादिना निर्मितायां पुत्रिकायां, येषाम् '-जनानाम् , 'नाम्नैव'-नामधेयेनैव, 'तं'-विवक्षितम् , ' विधि '-विधानम्, 'आचरन्ति'-कुर्वन्ति, 'अहो'-इत्यामन्त्रणे, चरणपूतों वा, 'यस्मात् ' यद्विध्याचरणवशाव, 'तान्'-जनान् , 'सजीवानपि'-जीवसहितानपि,
१. यथा । २. स्वामि-1