________________
जैनतत्वसार
टीकायाम्
॥ ११९ ॥
त्पन्नगुणदात्री भवति ॥ १७ ॥
मूलम् - यथा ग्रहाणां प्रतिमा अजीवाः, सत्योऽपि तत्पूजनतस्तदीयम् । गुणं ददत्येव तथा सतीनां, क्षेत्राधिपानामथ पूर्वजानाम् ॥ १८ ॥ विधेर्मुरारेश्च शिवस्य शक्ते-र्याः स्थापनास्ता अहिता हिता वा । अमानिताश्चाऽप्यभिमानिताः स्युः, स्तूपं तथा वा फलवन्न किं स्यात् ? ॥ १९ ॥
टीका - अस्योदाहरणमाह-यथेत्यादिना ' यथा येन प्रकारेण, ' ग्रहाणाम् ' -सूर्यादीनां, 'प्रतिमाः ' - मूर्तयः, ' अजीवा अपि सत्यः ' -जीवरहिता अपि भवन्त्यः, 'तत्पूजनतः ' - ग्रहप्रतिमापूजनात्, तदीयं गुणं ' - स्वोत्थगुणं, ' ददत्येव '- निश्चयेन वितरन्ति, 'तथे 'ति समुच्चये, 'सतीनां ' - पतीननुपरासूनां स्त्रीणां, ' क्षेत्राधिपानां ' - क्षेत्रपालानाम्, ' अथे 'ति समुच्चये, ' पूर्वजानां ' - पितॄणाम्, 'विधेः ' - ब्रह्मणः, ' मुरारेः ' - विष्णोः, ' च ' - पुनः, ' शिवस्य 'महेशस्य, तथा ' शक्तेः '- शक्तिदेवतायाः, याः स्थापना भवन्ति ताः स्थापनाः, ' अमानिताः ' - असम्मताः सत्यः, ' अहिताः '- अहितकारकाः, ' वा '- अथवा, 'च' शब्दोऽपिशब्दश्चरणपूत्तौ, 'अभिमानिताः '-सम्मताः सत्यः, 'हिताः स्यु: ' - हितकारका भवन्तीतिभावः, 'तथे 'ति समुच्चये, वेति निश्वये, स्तूपं ' - यज्ञादिस्तम्भः, किं ' फलवन स्यात् 'फलदात् नैव भवति ।। १८-१९ ।।
१. पितॄणाम् ।
सप्तदशो:धिकारा
॥ ११९ ॥