________________
4%94%AC
मूलम्-तथा च चञ्चादिकवस्त्वजीवं, क्षेत्रादिरक्षाकरणे समर्थम् ।
- छायाऽप्यशोकस्य च शोकहीं, कलेस्तु सो स्यात्कलहाय नृणाम् ॥१२॥ टीका-उक्तविषयमेवोदाहरणान्तरेणाह-तथा चेत्यादिना ' तथा चे'-ति समुच्चये, ' अजीवं'-जीवरहितम , 'चञ्चादिकवस्तु '-क्षेत्रस्थितपुरुषाकृतिप्रतिमादिकं वस्तु, 'क्षेत्रादिरक्षाकरणे'-क्षेत्रादिरक्षणविधाने, 'समर्थ'-शक्तम भवति, उदाहरणान्तरमाह-छायेत्यादिना 'अपि' शब्दश्च समुच्चये, 'अशोकस्य'-अशोकनामकवृक्षस्य, छाया 'शोकहीं '-शोकनाशिका भवति, तथा तु शब्दो विशेषणार्थः, 'कलेः'-कलिवृक्षस्य, विभीतकवृक्षस्येतिभावः, 'सा'-छाया. नणाम - मनुष्याणाम् , ' कलहाय स्यात् '-विद्वेषाय भवति ॥ १२ ॥ मूलम्-अजारजोमुख्यमथाऽप्यजीवं, पुण्यादिहान्यै भवतीति लोकः ।
अस्पृश्यकच्छायमजीवमेवं, यल्लङ्घमानस्य निहन्ति पुण्यम् ॥१३॥ टीका-उक्तविषय उदाहरणान्तरमाह-अजेत्यादिना 'अथे' ति समुच्चये, 'अजीवमपि '-जीवरहितमपि, 'अजारजोमुख्यं '-छागीरेणुप्रभृतिवस्तु, 'पुण्यादिहान्यै भवति'-धर्मादिनाशाय सञ्जायते, ' इति '-एतद्वृत्तं, 'लोकः'-संसारो वक्ति, उदाहरणान्तरमाह-अस्पृश्येत्यादिना 'एवम्'-उक्तरीत्या, 'अस्पृश्यकच्छायं'-चण्डालादीनां छाया, 'अजीवं'-जीवरहितमस्ति यत् '-अस्पृश्यकच्छाय, 'लङ्घमानस्य'-व्यतिक्रामतः जनस्य, 'पुण्यं'-धर्म, 'निहन्ति'-नाशयति ॥ १३ ॥
१. छाया । २. चण्डालादिसत्का छाया।
%95-%
%