SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ जन सप्तदशोऽघिका तत्वसार टाकायाम् टीका-उक्तोदाहरणविषयस्पष्टनपूर्वकं फलितमाह-नाऽत्रेत्यादिना 'तु' शब्दश्वरणपूतों, 'अत्र'-उक्तोदाहरणवि- षये, ' तयोः'-सीतारामयोः, यद्यपि ' कश्चित् '-कोऽपि, 'शरीराकारः'-देहाकृतिः, 'नास्ति'-न विद्यते, तथापि 'इह' अस्मिन् संसारे, 'यत्'-यस्मात् कारणात् , ' अजीवतोऽपि'-अचेतनपदार्थादपि, रामाङ्गुलिमुद्रिकाद्यचेतनपदार्थादपीत्यर्थः, 21 तयोः'-सीतारामयोः, 'तथाविधं'-तथाप्रकारम् , 'सुखं '-सौख्यं, 'समायात्'-आगच्छत् , प्राप्तमित्यर्थः, 'तर्हि ' तदा, 'ईश्वरार्चाऽपि '-स्वामिमूर्तिरपि, किं 'सुखाय'-सौख्याय, न भवति, उक्तप्रकारेणेश्वरप्रतिमाऽपि सुखायैव भवति इतिभावः ॥१०॥ मूलम्-इत्थं चरित्रेऽस्ति च पाण्डवानां, यद्रोणसूरिप्रतिमापुरस्तात् । भिल्लैकलव्यस्य किरीटिवद्धनु-विद्या सुसिद्धेति जगत्प्रतीतम् ॥११॥ टीका-प्रतिमामहत्त्वमेवाह-इत्थमित्यादिना 'च' शब्दश्चरणपूत्तौं, 'पाण्डवानाम् '-पाण्डुसुतानाम् , युधिष्ठिरादीनाम् इतिभावः, 'चरित्रे'-वृत्तान्ते, 'इत्थमस्ति'-एतद्वृत्तं विद्यते, 'यद्रोणसूरिप्रतिमापुरस्तात् '-द्रोणाचार्यमूर्तेः सकाशात , 'मिल्लैकलव्यस्य'-भिल्लेषु प्रधानस्य लव्यनामकस्य, 'किरीटिवत् '-अर्जुनतुल्यं, 'धनुर्विद्या सिद्धा'-धनुषो विज्ञानम् सिद्धिमुपगतम् , इत्येतत्वृत्तं 'जगत्प्रतीतम् '-संसारे प्रसिद्धमस्ति ॥ ११ ॥ १. नाम्नः । २. अर्जुन । 96486ESHA % % द %
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy