________________
है. सप्तदशोऽ
धिकार
तत्त्वसार टीकायाम् ॥११८ ॥
ARRHOEACARA
मूलम्-गुर्वीवधूच्छायमपीह भोगिनः, प्रोल्लङ्घमानस्य निहन्ति पौरुषम् ।
महेश्वरच्छायमथापि तस्य, रुषे व्यतिक्राम्यत एव पुन्सः ॥ १४ ॥ टीका-उदाहरणान्तरमाह-गुर्वीत्यादिना ' अपि' शब्दः समुच्चये, ' इह '-अस्मिन् संसारे, 'गुर्वीवधूच्छायं '-गर्मिणीनां स्त्रीणां छाया, 'प्रोल्लङ्घमानस्य'-व्यतिक्राम्यतः, 'भोगिनः '-भोगकर्तुः पुरुषस्य, यद्वा भोगिन इति सर्पस्येत्यर्थः, 'पौरुषं'-पुरुषार्थ, 'निहन्ति'-नाशयति, उदाहरणान्तरमाह-महेश्वरेत्यादिना 'अथाऽपी 'ति समुच्चये, 'महेश्वरच्छायं'शिवस्य छाया, 'व्यतिक्राम्यतः' उल्लङ्घमानस्य, 'पुन्सः'-पुरुषस्य, सम्बन्धे 'तस्य'-महेश्वरस्य, 'रुषे'-रोषाय एवेति॥१४॥
मूलम्--एवं पदार्था बहवोऽप्यजीवाः, सुखस्य दुःखस्य च हेतवः स्युः।
. देवाधिदेवप्रतिमाऽप्यजीवा, सती न किं सा सुखहेतुरत्र ॥ १५ ॥ टीका-फलितमाह-एवमित्यादिना 'एवम् '-अनया रीत्या, 'बहवोऽपि '-प्रभूता अपि, 'अजीवाः'-जीवरहिताः पदार्थाः, 'सुखस्य '-सौख्यस्य, 'च'-पुनः, 'दुःखस्य'-कलेशस्य, " हेतवः स्युः '-कारणानि भवन्ति, तर्हि ' अजीवाऽपि सती'-जीवरहिताऽपि भवन्ती, 'देवाधिदेवप्रतिमा'-देवेश्वरप्रतिमा, परमेश्वरमूर्तिरित्यर्थः, 'सा'-देवाधिदेवप्रतिमा, | 'अत्र'-अस्मिन्संसारे, कि 'सुखहेतुः'-सौख्यकारणं, न भवितुं शक्नोति, उक्तरीत्याऽजीवाऽपि देवाधिदेवप्रतिमा सुख
१. महेश्वरो महानायकः सार्वभौमादिस्तस्य छाया तत्तथा विभाषा सेनासुराछायाशालानिशानामिति क्लीबता एवमग्रेऽपि वाच्यम् । २. महेश्वरस्य । ३. उल्लामानस्य । ४. स्वर्णरुप्यरलवस्त्रकम्बलसिद्धानपानीपधादिपदार्था अनेके सन्ति ।
॥१८॥