________________
तथैव मनोहरा पुत्तलिकाऽपि ताहगमोहकारणं भवति, स्त्रीविषयं च रागं स्मारयतीत्यर्थः । पुनर्निदर्शनेन कथयति-कामासनेत्यादिना 'च'-पुनः, 'कामिनः'-कामक्रीडासक्ताः प्राणिनः, 'कामासनस्थापनतः '-कामोत्पादकासनचित्रात् , 'कामकेलिविकारान्'-कामक्रीडाविकृतीः, 'कलयन्ति '-अनुभवन्ति । उदाहरणान्तरमभिधातुकाम आह-योगासनेत्यादि 'ही'-ति निश्चये, चरणपूतौ वा, योगासनालोकनतः'-योगसम्बन्ध्यासनदर्शनेन, 'योगिनाम्'-योगाभ्यासकर्तृणां, 'योगासनाभ्यासमतिः परिष्यात्'-योगसम्बन्ध्यासनस्याऽभ्यासे बुद्धिर्भवेत् , उदाहरणान्तरमाह-भूगोलेत्यादिना 'भूगोलतः'
भूगोलविद्यातः, 'तद्गतवस्तुबुद्धिः स्यात् '-भूगोलावस्थितपदार्थज्ञानं भवति, तथा 'इह'-अस्मिन्संसारे, 'लोकनालेःXI लोकनालिकाद्वारा, ‘लोकसंस्थितिः'-लोकस्य संस्थानम् , लोकरचनेति यावत् ।। ३-४ ॥
मूलम्-कूर्माहिकालानलकोटचक्र-स्तदाश्रितज्ञप्तिरिह स्थितानाम् ।
शास्त्रीयवर्णन्यसनात्समग्र-शास्त्रावबोधस्तदभीक्षकाणाम् ॥५॥ टीका-उदाहरणान्तरमाह-कूर्मेत्यादिना 'कूर्माहिकालानलकोटचक्ररि 'ति-कूर्मचक्रेण सूर्यकालानलचक्रेण चन्द्रकालानलचक्रेण कोटचक्रेण वेत्यर्थः, ' इह '-अस्मिन्संसारे, 'स्थितानाम् '-वर्तमानानाम् जनानाम् , ' तदाश्रितज्ञप्तिः'-कूर्माद्याश्रितपदार्थज्ञानम् भवति, उदाहरणान्तरमाह-शास्त्रीयेत्यादिना 'शास्त्रीयवर्णन्यसनात् '-शास्त्रसम्बन्ध्यक्षरस्थापनया, 'तदभीक्षकाणाम् '-शास्त्राभिदर्शकानाम् , 'समग्रशास्त्रावबोधः'-सकलशास्त्रज्ञानम् भवति ॥५॥
१.कर्मचक्र अहिचक्र अहिवलयाख्यं वा चक्रं सूर्यकालानलचक्र चन्द्र कालानलचक्र कोटचक्रं वेति वाच्यम् । २. तदभिदर्शकानाम् ।