________________
| सप्तदशोऽधिकार
तरवसार टीकायाम्
.११६॥
+SAGAR
मूलम्-नन्दीश्वरद्वीपपुटात्तथा च, लङ्कापुटात्तद्गतवस्तुचिन्ता ।
एवं निजेशप्रतिमाऽपि दृष्टा, तत्तद्गुणानां स्मृतिकारणं स्यात् ॥६॥ टीका-उदाहरणान्तरमाह-नन्दीश्वरेत्यादिना 'नन्दीश्वरद्वीपपुरात्'-नन्दीश्वरद्वीपस्य प्रतिचित्रेण, 'तथा चेति समुच्चये, 'लङ्कापुरात्'-लङ्कायाः प्रतिचित्रेण, 'तद्गतवस्तुचिन्ता'-नन्दीश्वरद्वीपस्य पदार्थचिन्तनं, लङ्कास्थपदार्थचिन्तनम् च भवति, दार्टान्तघटनपूर्वकं फलितमाह-एवमित्यादिना 'एवम् '-अनया रीत्या, 'निजेशप्रतिमाऽपि'-स्वस्वामिनो मूर्तिरपि, 'दृष्टा'-अवलोकिता सती, 'तत्तद्गुणानाम् '-तत्सम्बन्धिगुणानां, 'स्मृतिकारणं स्यात् '-स्मरणहेतुर्भवति ॥ ६॥
मूलम्-यदा तु साक्षान्न हि वस्तु दृश्यं, तत्स्थापना सम्प्रति लोकसिद्धा ।
तथा च पत्यो परदेशसंस्थे, काचित्सती पश्यति यत्तदर्चाम् ॥७॥ ___टीका-अत्रैव पुष्टिमाह-यदा वित्यादिना 'तु' शब्दो विशेषणार्थः, 'ही'ति निश्चये, 'यदा'-यस्मिन् काले, 'वस्तु' 'साक्षात् दृश्यं '-प्रत्यक्षेण द्रष्टुं योग्यं न भवति, तदा 'तत्स्थापना'-अदृश्यवस्तुस्थापना भवति, या तु "संप्रति '-अधुनापि, 'लोकसिद्धा'-संसारे प्रसिद्धाऽस्ति, अस्योदाहरणमाह-' तथा चे 'ति तथाहीत्यर्थः, 'पत्यौ'भर्तरि, 'परदेशसंस्थे'-परदेशे वर्तमाने सति, 'काचित् '-कापि, 'सती'-पतिव्रता स्त्री, 'यदि 'ति निश्चयेन, अव्ययानामनेकार्थत्वात् , ' तदर्चाम् '-पतिप्रतिमां, 'पश्यति'-अवलोकयति ॥ ७॥
१. तस्य पत्युः अर्ची प्रतिमाम् ।
SU॥११६॥