SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ जैन रावसार टीकायाम् ॥ ११५ ॥ मूलम् - नैवं स्वचित्ते परिचिन्तनीय-मजीवसेवाकरणाद्भवेत् किम् ? | tureशाकारनिरीक्षणं स्यात्प्रायो मनस्तद्गतधर्मचिन्ति ॥ २ ॥ टीका - अस्योत्तरमाह - नैवमित्यादिना 'एवम् ' - इत्थं, 'स्वचित्ते ' - निजमानसे, 'न परिचिन्तनीयम् ' - न विचारणीयम्, यतः ' अजीव सेवाकरणात् ' - अचेतनसेवनेन किम्फलम् ' भवेत् ' - स्यात्, अत्र हेतुमाह-यदित्यादिना ' यत् ' - यस्मात् कारणात्, ' यादृशाकारनिरीक्षणं स्यात् ' - यादृश आकृतेरवलोकनं भवेत्, 'प्रायः ' - बहुधा, 'मनः' - मानसं, 'तद्गतधर्मचिन्ति ' - तदाकारस्थितधर्माणाम् चिन्तकम् भवति ॥ २ ॥ मूलम् - यथा हि सम्पूर्णशुभाङ्गपुत्रिका, दृष्टा सती तादृशमोहहेतुः । कामासनस्थापनतश्च काम केलीविकारान्कलयन्ति कामिनः ॥ ३ ॥६ योगासन लोकतो हि योगिनां, योगासनाभ्यासमतिः परिष्यात् । भूगोलतस्तद्गतवस्तुबुद्धिः, स्याल्लोकनालेरिह लोकसंस्थितिः टीका - दृष्टान्तेनैतद्विषयम् दृढयति-यथा हीत्यादीना ' यथा ' - येन प्रकारेण, ' ही 'ति निश्वये, 'सम्पूर्णशुभाङ्गपुत्रिका' - परिपूर्णमनोहराऽवयवाऽन्वितपुचलिका ( 'पुतली ' इति भाषायाम् ) ' दृष्टा सती ' - वीक्षिता सती, ' तादृशमोहहेतु: ' - तथाप्रकाररागकारणम् भवति, यथा अन्यूनाङ्गोपाङ्गा सौन्दर्यशालिनी च युवतिः साक्षात् प्रेक्षिता सती रागमुद्दीपयति, * अस्य तृतीयश्लोकस्य टीका लिखितहस्तादर्शे नोपलभ्यते, अतः साऽत्र मया संदृभ्य निवेशिता - संपादक: । १. स्यात् । 118 11 सप्तदशोऽधिकार ॥ ११५ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy