________________
F
%
अथ सप्तदशोऽधिकारः।
*
*
परमेश्वरप्रतिमापूजनेन पुण्यसम्भव इति त्रयोविंशतिश्लोकैराहमूलम्-अर्थत्यसो नास्तिक आख्यदास्तिकं, यदुच्यते भोः प्रतिमार्चनाद्भवेत् ।
पुण्यं न तत्सम्भवतीषदार्या, अजीवतः का फलसिद्धिरस्ति ॥१॥ टीका-साकारदेवार्चनविषये नास्तिकः प्रश्नयति-अथेत्यादिना अथे 'त्यनन्तरे, 'असौ'-पूर्वोक्तो नास्तिकः, 'आस्तिकमाख्यत्'-आस्तिकं प्रत्यकथयत् , यत् 'भोः' इत्यामन्त्रणे, 'हे आर्याः-हे श्रेष्ठाः!, 'प्रतिमार्चनात्'-प्रतिमायाः पूजनात् , 'पुण्यं भवेत् '-धर्मः सञ्जायते, 'इति'-एतत् , 'उच्यते'-कथ्यते, 'तत् ईपन्न सम्भवति'-तत्कथनस्य स्वल्पमपि सम्भवो नास्ति, प्रतिमाया अर्चनात् कथमपि पुण्यस्य संभवो न भवितुमर्हतीतिभावः, अत्र हेतुमाह-अजीवत इत्यादिना 'अजीवतः'-अजीवात् , अचेतनादित्यर्थः, 'का फलसिद्धिरस्ति'-कस्य फलस्य सिद्धिः सञ्जायते ॥१॥
इतः पूर्वमवशिष्टपदेन साकम् इतिशेषः, इति पादद्वयमपि संलिखितं परन्वित आरभ्य ग्रन्थविस्तृतभीत्या इतिशेषः, इति का पदद्वयमलिखित्वाऽवशिष्टपदमेव कोष्टके संलेखिष्यत इति विज्ञेयम् ॥]
*
*