________________
तस्वसार टीकायाम्
SUOSSASS
॥१४॥
SUSISUSSIES
नाख्यचारित्रमुख्या:'-ज्ञान-दर्शन-चारित्रादिनामकाः, 'सकला:'-सर्वे, 'गुणौघाः सन्ति'-गुणसमूहा वर्तन्ते, 'स'-इत्थंभूतः, 1* | षोडशोऽ'आत्मबोधः'-आत्मज्ञानं, 'प्रकृष्टं '-प्रकृष्टरीत्या, क्रियाविशेषणमेतत् , 'जयति'-जययुक्तो भवति, 'यत्-यस्मात्
धिकारः कारणात् , ' इह '-आत्मबोधे, 'ज्ञानादिशुद्धं'-ज्ञानादीनां शुद्धिः, भावे क्तप्रत्ययः, 'अनंतमस्ति'-अन्तरहितं वर्त्तते ॥३६॥ मूलम्-तच्छोधनेऽनन्तचतुष्टयाप्ति-र्यदीयपारप्रतिप्रतिकार्ये ।
ज्ञानं न कस्यापि सदा प्रभु स्या-त्सर्वात्मनाकाशशीव शाश्वतम् ॥ ३७॥ टीका-ज्ञानादिशुद्धौ किं भवतीत्याह-तच्छोधन इत्यादिना तच्छोधने'-ज्ञानादिशुद्धौ सत्याम् , 'अनन्तचतुष्टयाप्ति'अनन्तचतुष्टस्य प्राप्तिः, अनन्तज्ञानाऽनन्तदर्शनाऽनन्तवीर्याऽनन्तसुखरूपाऽनन्तचतुष्टयस्य लब्धिरितिभावः,भवतीतिशेषः, 'यदीयपारप्रतिपत्तिकार्य-यत्सम्बन्धिपारगमनकार्ये, 'कस्यापि'-कस्यचिजनस्येतिशेषः, 'ज्ञानं'-बोधः, 'आकाशदृशीव'-आकाशदर्शन इव, 'शाश्वतं'-निरन्तरम् , 'सर्वात्मना'-सर्वस्वरूपेण, सर्वथेतिभावः, 'सदा-सर्वदा, 'प्रभु'-समर्थ, 'न स्यात्'-न भवति, यथाकाशदर्शने कस्यापि ज्ञानं समर्थ न भवति तथैवाऽनन्तचतुष्टयपारदर्शनेऽपि कस्यापि ज्ञानं समर्थ न भवतीतिभावः ॥३७॥ श्रीजैनतत्वसारे नास्तिकस्य द्रव्यभावभेदद्विविधधर्मदर्शनपूर्वकं द्रव्यधर्मादपि परम्परया
भावधर्मलाभोक्तिलेशः षोडशोधिकारः ।
URSS
१. आत्मावबोधस्य सम्यग् निर्मलतायां । २. आकाशदर्शने इव ।