SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ तदङ्गने पादविहारवद्यः, शिवालयावस्थितिकृन्महात्मनां । तेनात्मबोधः परमोऽस्ति धर्मो, यत्सेधनान्निर्वृतिरेव निश्चिता ॥ ३५ ॥ टीका - आत्मावबोधप्रशस्तिमाह- पौर्व इत्यादिना ' योऽखिलद्रव्यभावभिन्न ः ' - सर्वद्रव्यभावभेदेन मेदं प्राप्तः, 'पौर्व:'पूर्वोक्तः, 'विधिः ' - विधानमस्तीतिशेषः, इति निश्चयेन, 'सः' - पूर्वोक्तो विधिः, 'निर्वाणधाम्नः '- मुक्तिसौधस्य, ' द्वारघरोपलब्ध्यै ' - प्रांगण भूमिप्राप्तये, 'वरयानवत् स्यात् ' - श्रेष्ठवाहनतुल्योऽस्ति, तथेतिशेषः, 'इह ' - अस्मिन्संसारे, ' तस्य प्रवेशे ' - मुक्तिसौधप्रवेशाय, ' अयं '- पूर्वोक्तः, ' आत्मबोधः '- आत्मज्ञानं, 'तदंगने' - मुक्तिसौधाङ्गने, ' पादविहारवत् 'चरणविहरणतुल्यः, अस्तीतिशेषः, 'यः' - आत्मबोधः, महात्मनाम् जनानामितिशेषः, 'शिवालयावस्थितिकृत् ' - मुक्ताव वस्थानकारकः, अस्तीतिशेषः, 'तेन' - कारणेनेतिशेषः, ' आत्मबोधः - आत्मज्ञानं, 'परमो धर्मोऽस्ति ' -उत्तमो धर्मों भवति, ' यत्सेधनात् ' - यस्याऽऽत्मबोधस्य साधनात्, 'निर्वृतिः ' - मुक्तिः, 'निश्चितैव'- निश्चययुक्तैव, भवतीतिशेषः, यस्याssत्मबोधस्य साधनात् नूनं मुक्तिप्राप्तिर्भवतीतिभावः ॥ ३४-३५ ॥ मूलम् - सन्त्यत्र यद्बोधनदर्शनाख्य- चारित्रमुख्याः सकला गुणौघाः । आत्मबोधो जयति प्रकृष्टं ज्ञानादिशुद्धं यदिहास्त्यनन्तम् ॥ ३६ ॥ टीका - आत्मबोधस्य परमधर्मत्वे हेतुमाह - सन्त्येत्यादिना 'यत्' - यस्मात् कारणात्, 'अत्र' - आत्मबोधे, ' बोधनदर्श१. आत्मावबोधे । २. ज्ञान ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy