SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ * षोडशोऽधिकार तत्वसार * कायाम् * * 'स्वकीयव्यवहाररक्षा कार्या'-आत्मीयाचाररक्षा कर्तव्या, कथम्भृतेन कुलीनेन ? 'सनिश्चयेन'-निश्चयरता, निश्चयनयध्यायिनेतिभावः, अत्र हेतुमाह-सनिश्चय इत्यादिना ' यतः'-यस्मात् कारणात् , 'एवम्'-इत्थम् , अनया रीत्येतिभावः, 'गृहस्थः'गृही, 'परैः'-अन्यैः, जनैरितिशेषः, 'निन्धो न भवेत् '-निंदनीयो न जायते, कथंभूतो गृहस्थः १ 'सनिश्चयः'-निश्चयवान् , निश्चयनयध्यायीतिभावः, पुनः कथंभूतः ? 'सव्यवहारः'-व्यवहारेण सहितः, व्यवहारनयकर्तेतिभावः ॥३१-३२॥ मूलम्-स्थिरं यदा चित्तमनाकृतावपि, तदा तु सिद्धस्मरणं विधेयम् । तत्सेधने साधुगृहस्थमुख्य-रात्मावबोधे परियत्न एष्यः ॥३३॥ .. टीका-सति चित्तस्थैर्ये तेन किं कर्त्तव्यमित्याह-स्थिरमित्यादिना ' यदा'-यस्मिन् काले, 'अनाकृतावपि 'आकाररहितेऽपि '-पदार्थे इतिशेषः, 'चित्त'-मनः, 'स्थिरम् '-अचञ्चलम् , भवेदितिशेषः, 'तदा'-तस्मिन् काले, 'तु' शब्दश्चरणपूर्ती, 'सिद्धस्मरणं'-सिद्धानां स्मरणं-ध्यानं, 'विधेयम्'-कर्त्तव्यम् , सिद्धस्मरणाय किं कर्तव्यमित्याह-तत्सेधनेत्यादिना 'तत्सेधने'-तत्साधनाय, सिद्धस्मरणसिद्धये इतिभावः, 'साधुगृहस्थमुख्यैः '-साधुगृहस्थादिभिः, 'आत्मावबोधे'-आत्मज्ञानाय, 'परियत्नः'-पुरुषकारः, 'एष्यः'-अभिलषणीयः, कर्तव्य इतिभावः ॥ ३३ ॥ मूलम्-पौवों विधिर्योऽखिलद्रव्यभाव-भिन्नां स हि द्वारधरोपलब्ध्यै । निर्वाणधाम्नो वरयानवत्स्या-त्तस्य प्रवेशेऽयमिहाऽऽत्मबोधः ॥ ३४ ॥ * * Ku॥१३॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy