________________
टीका-पूर्वोक्तविषयमेवाह-एत इत्यादिना 'एते'-पूर्वोक्ताः, 'गृहस्थाः '-गृहिणः, 'हृदये'-मानसे, ' इतीव का संकल्प्य '-इत्येतद्विचार्यैव, 'द्रव्यधर्मम्'-द्रव्यद्वारा धर्म, 'विदध्युः'-कुर्युः, 'च' शब्दश्चरणपूत्तौं, यदितिशेषः, 'चेत४ा यदि, 'यथा'-येन प्रकारेण, ' द्रव्येण '-द्रव्यद्वारा, 'कर्माणि'-कार्याणि, समाचरय्य'-कारयित्वा, 'इदं '-प्रसिद्धम् ,
'मनो'-मानसं. 'तुष्टिं निधत्ते'-संतोषं दधाति, तीतिशेषः, 'तथैव'-तेनेव प्रकारेण, 'द्रव्येण '-द्रव्यद्वारा, 'कानिचित् '-कान्यपि, धर्माण्यपि, ‘कृत्वा'-विधाय, 'स्वमनः'-निजमानसं, 'प्रसन्न'-दृष्ट, कुर्मः, 'येन'-कारणेनेतिशेषः, 'अत्र'-अस्मिन्संसारे, 'गृहस्थसत्कः '-गृहिसंबन्धी, 'एषः'-प्रसिद्धः, 'व्यापारः '-व्यवहारः, 'द्रविणेनैव - धनेनैव, 'सिध्येत् '-सिद्धिं याति ॥ २६-२७ ॥ .. मूलम् एषां यतो द्रव्यवतां स्वधर्म, द्रव्येण साद्धं भवतीह चेतः।
युक्तं घदो यस्य बलं यदीयं, बलेन तेनैव मतं निजं क्रियात् ॥ २८ ॥ टीका-गृहस्थानामेवं करणे पुष्टिमाह-एषामित्यादिना 'यतः'-यस्मात् कारणात् , ' इह-अस्मिन् संसारे, RI 'एषां'-पूर्वोक्तानाम् , 'द्रव्यवताम् '-धनिनाम् , गृहस्थानामितिशेषः, 'द्रव्येण '-द्रव्यद्वारा, 'स्वधर्म'-निजधर्म,
'सार्दू'-साधयितुम् , 'चेतो भवति'-इच्छा जायते, 'ही'ति निश्चये, 'अदः'-एतत् , 'युक्तं'-योग्यम् , अस्तीतिशेषः, *यत इति च शेषः, यस्य जनस्येतिशेषः, 'यदीयं'-यत्संबंधि, 'बलं'-शक्तिः , अस्तीतिशेषः 'तेनैव' 'बलेन'-सामर्थ्येन,
स इति शेषः, 'निजं मतं'-स्वाभीष्टम् धर्ममितिशेषः, 'क्रियात् '-करोतु ॥ २८॥