________________
जैनरास्वसार टीकायाम्
॥ १११ ॥
ते मी स्वतः प्रतिभांतपुण्य कार्योद्यता आत्मरुचिप्रवृत्ताः ।
देव ते स्वीयमनोऽभितुष्टयै कुर्वन्ति पुण्यं किल कुर्वतां तेत् ॥ २५ ॥
टीका - गृहस्थाचारविषयमेवाह - प्रायेणेत्यादिना ' ते ' - पूर्वोक्ताः, ' अमी ' - प्रसिद्धाः, 'गृहस्था: ' - गृहिणः, ' प्रायेण' - बहुधा, ' सावद्यरताः ' - पापमयव्यापारतत्पराः, 'सदा-सर्वदा, 'ऐहिकार्थाधिकृतौ ' - सांसारिकद्रव्यार्जने, 'प्रसक्ताः '- संलग्नाः, 'कुटुम्बेत्यादि ' ' कुटुम्बस्य ' - परिवारस्य, 'पोषे ' -पोषणे, 'आदृताः' - स्वीकृताः, 'भूरिसङ्ख्या '- प्रभूतसंख्याका, ' उच्चनीचवार्ताः' - उत्तमाऽघमजीविकायैस्तैः तथा, 'परतन्त्रखिन्ना: ' - पराधीनतया दुःखिताः, 'स्वचेतः प्रतिभातपुण्य कार्योद्यताः' - स्वमनो मानिते पुण्यकर्मणि तत्पराः, तथेतिशेषः, 'आत्मरुचिप्रवृत्ताः' - स्वरुच्या प्रवृत्ति कुर्वन्तो भवन्तीतिशेषः, अत इति च शेषः, ' ते ' - गृहस्थाः, ' स्वीयमनोऽभितुष्टयै ' - स्वमानससन्तोषाय, यदेव पुण्यं कुर्वन्ति ' ' किले 'ति निश्चये, 'तत्'- पुण्यं, ' कुर्वताम् ' - आचरन्तु ॥ २४-२५ ॥
मूलम् - एते गृहस्था हृदये विदध्यु- रितीव सङ्कल्प्य च द्रव्यधर्मम् । द्रव्येण कर्माणि समाचरय्य, यथा मनस्तुष्टिमिदं निघत्ते ॥ २६ ॥ तथैव धर्माण्यपि कानिचिचेद्, द्रव्येण कृत्वा स्वमनः प्रसन्नम् । कुर्मोऽत्र येनैव गृहस्थसत्को, व्यापार एष द्रविणेन सिध्येत् ॥ २७ ॥ १. मानित । २. पुण्यादि ।
षोडशोऽधिकारः
॥ १११ ॥