SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ चेतिशेषः, 'एते '-गृहस्थाः , 'अत्र'-अस्मिन्संसारे, 'आलम्बनं विना'-आधारमन्तरेण, 'तत्त्वत्रये'-त्रिषु तत्त्वेषु, देवगुरुधर्मरूपतत्त्वत्रय इतिभावः, 'विमुह्यन्ति'-मोहं प्राप्नुवन्ति, कर्तव्यविमूढा भवन्तीतिभावः, 'तत्-तस्मात् कारणात् , 'शुभार्थम् '-कल्याणार्थ, ते गृहस्था इतिशेषः, ' साकारपूजां'-साकृतेरर्चनम् , 'धृतसाधुवेषसेवाम् '-धृतः साधोर्वेषो येन स तथा तस्य सेवाम्-सेवनम् , साधुशुश्रूषामित्यर्थः, 'च'-पुनः, 'दानादि '-दानप्रभृति, नित्यं '-सततम् , ' सृजन्तु'कुर्वन्तु ॥ २१-२२॥ मूलम्-उच्चैः कुलाचारयशोऽवनार्थम्, श्रितो गृहस्थैः सकलोऽपि धर्मः।। तद् द्रव्यतो भावत आत्मसम्पदे, द्विधापि धर्म गृहिणः श्रयन्त्वमी ॥ २३ ॥ टीका-पुनर्गृहस्थाः किं कुर्युरित्याह-उच्चैरित्यादिना ' उच्चैः कुलाचारयशोऽवनार्थम् '-उच्चवंशव्यवहारकीतिरक्षणाय, 'गृहस्थैः'-गृहिभिर्जनः, 'सकलोऽपि '-सर्वोऽपि, 'धमः', 'श्रितः'-आश्रितः, अभूदितिशेषः, 'तत् '-तस्मात् कारणात् , 'आत्मसम्पदे'-आत्मकल्याणाय, 'अमी'-पूर्वोक्ताः, 'गृहिणः'-गृहस्थाः, 'द्रव्यतः'-द्रव्यद्वारा, 'भावतः'भावद्वारा, 'द्विधाऽपि '-प्रकारद्वयेनापि, धर्म 'श्रयन्तु '-आश्रयन्ताम् ॥ २३ ॥ मूलम्-प्रायेण सावधरता गृहस्थाः, सदैहिकार्थाधिकृतौ प्रसक्ताः। कुटुम्बपोषाहतभूरिसङ्घयो-चनीचवार्ताः परतन्त्रखिन्नाः ॥ २४ ॥ १. रक्षणाय । २. द्रव्यभावभिन्नः । ३. आजीविकाः । ४. पारवश्येन खेदवन्तः ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy