SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ** तस्वसार टीकायाम् षोडशोऽधिकारा ॥ ११० ॥ * *** 'गृहस्थाः'-गृहिणोपि, 'देशतः'-देशद्वारा, एकदेशेनेत्यर्थः, 'अमृन्'-पूर्वोक्तान् एव, 'गुणान् '-क्षान्त्यादीन् , 'चिराय'-चिरकालपर्यन्तं, 'श्रयन्तु '-आश्रयन्ताम् , 'परन्तु '-किन्तु, 'यत्कर्मणि'-यस्मिन्कायें, 'जीवहिन्सा'-जीवा| नाम् हननम् , भवतीति शेषः, 'तत् '-कर्मेति शेषः, 'चेत्'-यदि, गृहस्था इति शेषः, 'श्रयन्ति'-आश्रयन्ते, त_ति शेषः, | तज्जीवहिंसायुक्तकर्माश्रयणाम् , 'एषां'-गृहस्थानाम्, 'न वरं'-न श्रेष्ठमस्तीतिभावः ॥२०॥ मूलम्-सत्यं गृहस्थाः खलु ते भवन्ति, प्रायो हि ते स्थूलधियोऽतिचिन्ताः। आरम्भवन्तश्च परिग्रहादराः, सूक्ष्मेक्षिकालोकनकुण्ठबुद्धयः ॥ २१ ॥ एते विलम्बनमत्र तत्व-त्रये विमुह्यन्ति ततः शुभार्थम् । साकारपूजां धृतसाधुवेष-सेवा च दानादि सृजन्तु नित्यम् ॥२२॥ टीका-अस्योत्तरमाह-सत्यमित्यादिना 'सत्यमि'ति-पूर्वोक्तं तव कथनं सत्यमस्तीत्यर्थः परन्त्वितिशेषः, 'खल्वि'-४ ति निश्चये, ये 'गृहस्था भवन्ति'-गृहिणो वर्तन्ते, 'ही 'ति चरणपूत्तौं, 'प्रायः'-बहुधा, 'स्थूलधियः'-स्थूलबुद्धियुक्ताः , 'अतिचिन्ताः'-अधिकचिन्ताः, अधिकचिन्तायुक्ताः, 'आरम्भवन्तः'-आरम्भयुक्ताः, 'च' शब्दश्वरणपूत्तौं, 'परिग्रहादराः '-परिग्रहविषये दत्तादराः, 'सूक्ष्मेक्षिकालोकनकुण्ठबुद्धयः'-सूक्ष्मदृष्ट्याऽवलोकने मन्दधियः, भवन्तीतिशेषः, तथा ...१. अधिकचिन्ताः । २. दृष्टि । ३. बठर । ४. आलम्बनमाश्रय आधारो वेत्यायेकार्थाः । ५. साकारजिनप्रतिमायां साधुवेषे PJ प्रतिलेखनाप्रमार्जनादानादिकर्तव्ये च द्रव्यधर्मत्रये । * *
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy