SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ जैन तत्वसार टीकायाम् ॥ ११२ ॥ 6 मूलम् —तद्द्रव्यधर्मं गृहिणां प्रकुर्वतां, संसारकार्यान्मनसोऽस्तु संवृत्तिः । यथा तथैते दधतां मनः स्वकं, सालम्बने पुण्यविधावपेक्षणम् ॥। २९ ।। टीका – उक्तविषयमेवाह-तद्रव्येत्यादिना 'तत्'- पूर्वोक्तं, 'द्रव्यधर्म ' - द्रव्यद्वारा धर्मं, 'प्रकुर्वताम् ' - कुर्वाणानाम्, 'गृहिणाम् ' - गृहस्थानाम्, 'यथा ' - येन प्रकारेण, 'संसारकार्यात् ' - लौकिक कर्मणः, ' मनसः ' - मनस्य, 'संवृतिरस्तु - निवृतिः स्यात्, ' तथा ' - तेन प्रकारेण, ' एते ' - गृहस्था: ' सालम्बने पुण्यविधौ ' - आलम्बनसहिते पुण्यकार्ये, साकारजिनपूजायां साधुवेषसेवायाम् प्रतिलेखनाप्रमार्जनादानादिकर्त्तव्ये च द्रव्यधर्मत्रय इतिभावः, ' अपेक्षणम् ' - अपेक्षापूर्व, ' स्वकं मनः ' - निजं मानसं 'दधताम् ' - स्थापयन्तु ।। २९ ।। मूलम् - तद्यावतामी निजकेन्द्रियाणि, संवृत्य संसारेभवक्रियातः । तदेव पूजादिकमाश्रयन्तां मनः स्थिरं येन मनागपि स्यात् ॥ ३० ॥ टीका - उक्तविषयमेवाह - तद्यावतेत्यादिना ' तत् ' - तस्मात् कारणात् ' अमी ' - गृहस्थाः, ' संसारभवक्रियातः 'संसारसंबंधिन्याः क्रियायाः, ' निजकेन्द्रियाणि संवृत्य ' - स्वेंद्रियाणि संरुध्य, ' यावता ' - यत्परिमाणकेन येन कार्येनेति - शेषः, ' मनागपि ' - स्वल्पमपि, ' मनः' - मानसं 'स्थिरं स्यात् ' - अचञ्चलं भवेत्, ' तदेव ' ' ' पूजादिकम् ' -अर्चादिकम् कार्यमितिशेषः, ' आश्रयन्ताम् ' - कुर्वन्तु ॥ ३० ॥ साकारजिनपूजायां साधुवेषे प्रतिलेखनाप्रमार्जनादिकर्त्तव्ये व द्रव्यधर्मत्रये । १. सम्बन्धि । * षोडशोऽधिकारः ॥ ११२ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy