________________
454
मूलम्-तथाहि सिद्धाः परिभान्त्यमूर्ती, अमी तथा देहममत्वमुक्ताः।
अरूपिणस्ते तदिमे शरीर-संस्कारसत्कारनिकारकाराः मुक्ताशनास्तेऽत इमे क्वचित्क्वचि-दाहारवर्जाः पुनरेव ते तु । विद्वेषमुक्ता इति सर्वसत्त्व-मैत्रीवहा एत इतीव रुच्याः ॥१२॥ ते वीतरागा इति बन्धुबन्ध-च्युता इमे ते तु निरञ्जनाख्याः । इसे ततः प्रीतिविलेपनाद्यैः, शून्याश्च ते निष्क्रियकास्ततोऽमी ॥१३॥ आरम्भसंरम्भविलम्भरिता, गतस्पृहास्तेऽत इमे निराशाः । अस्पर्धकास्ते तदमी परैस्तु, वादविवादैरहितास्तथा च
॥१४॥ निर्बन्धनास्तेऽथ सदैवकलप्त-स्वेच्छाविहारास्तदिमेऽथ तेपि ।
निःसन्धयोऽमी तु परस्परोत्थ-सख्याद्विरक्ता अथ केवलेक्षाः ॥१५॥ १. किं किं विचिन्त्य सिद्धगुणाननुसरन्तीत्याह । २. अत्र प्रकरणे इदमदस्पतच्छब्दैः साधव एव सर्वत्र ग्राह्यास्तच्छब्देन तु प्रसिद्धास्ते सिद्धा पवादेयाः किं वारंवारं लिखनेन । ३. निषेधकर्तारः । ४. पर्वणि । ५. विशेषेण लम्भः-प्राप्तिस्तया PIरिक्ताः-शून्याः । ६. मैत्र्यात् ।
5
464