SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ जैन तस्वसार टीकायाम् ॥ १०७ ॥ सन्धिवर्जिता इति '-बन्धनं मानसं वाचिकं कायिकं च यथेदं तवाहं करिष्य इति त्रिकरणेनापि मुक्ताः, सन्धानं - सन्धि | अमाननशीलानां भवद्भिरहं मान्य इति सन्धिः - संश्लेषः, सोऽपि त्रिकरणाश्रितस्तेन मुक्ता इत्यर्थः, 'सत्केवलेत्यादि ' -सत् - श्रेष्ठं केवलज्ञानं तस्य निधानं-निधिस्तेन बन्धुरा - युक्ता तथेति शेषः, 'निरन्तरेत्यादि' - निरन्तरः- शाश्वतो य आनन्दः स एव सुधामृतः तस्य रसः - स्वादस्तेनाश्चिताः - युक्ताः सन्तीति शेषः, 'अतः' - अस्मात् कारणात्, 'तदुत्पन्नगुणानुगामिभिः' - तेषां - सिद्धानामुत्पन्ना ये गुणाः क्षान्त्यादयस्तेषामनुगामिभिः - अनुयायिभिः, 'महानुभावैः' - महाशयैः, 'मुनिभिः' - साधुभिः, 'तदवाप्तिकाङ्क्षया '-सिद्धत्वप्राप्तीच्छया, 'आत्मानुरूपशक्त्या ' - स्वशक्त्यनुसारेण, 'तेषां ' - सिद्धानां 'गुणानां' - क्षान्त्यादीनां, 'अनुयानं विधीयते ' -अनुसरणं क्रियते ॥ ७-९ ॥ 4 मूलम् - यद्यप्यमीषां न गुणान्समस्तान्, पूर्णानिमे सेवितुमत्र शक्ताः । तथाप्यमी साधव आत्मयोग्यं, श्रित्वा बलं सिद्धगुणान् श्रयन्ति ॥ १० ॥ 4 टीका – सिद्धगुणासेवनशक्ति विषयमाह - यद्यपीत्यादिना ' अत्र ' - अस्मिन् संसारे, यद्यपि ' अमीषां ' - सिद्धानाम्, पूर्णान् ' - सम्पूर्णान्, पूर्णतयेति भावः, 'समस्तान् सर्वान्, 'गुणान् ' - क्षांत्यादीन्, 'सेवितुम् ' - भक्तुम्, ' इमे - मुनयः, ' न शक्ताः - न समर्थाः सन्तीति शेषः, ' तथापि ' - तदपि, ' अमी ' - पूर्वोक्ताः, 'साधवः '- मुनयः, ' आत्मयोग्यं बलं श्रित्वा '-स्वानुरूपां शक्तिमाश्रित्य ' सिद्धगुणान् ' - सिद्धानां क्षान्त्यादीन् गुणान्, ' श्रयन्ति ' - भजन्ते ॥ १० ॥ षोडशोऽधिकारः ॥ १०७ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy