________________
Х
k
e
RRRRRRR
निरञ्जना निष्क्रियका गतस्पृहाः, अस्पर्धका बन्धनसन्धिवर्जिताः। सत्केवलज्ञाननिधानबन्धुरा, निरन्तरानन्दसुधारसाञ्चिताः
॥८॥ अतस्तदुत्पन्नगुणानुगामिभि-महानुभावैर्मुनिभिर्विधीयते ।
तेषां गुणानामनुयानमात्मा-नुरूपशक्त्या तंदवाप्तिकाङ्क्षया ॥९॥ टीका-सिद्धानामुक्तगुणशालित्वेनाऽन्येषां किं फलम् ? इति दर्शयितुमाह-तत्सेवकेत्यादि 'तत्सेवकेनापि'-स्वामिसेवकेनापि जनेनेति शेषः, 'तदीयशीलविधायिना भाव्यम् '-स्वामिसम्बन्धिशीलानुवर्तिना भवितव्यम् , ' इति '-एतत् लोक इति शेषः, 'प्रतीत '-प्रसिद्धमस्तीति शेषः, तर्हि सिद्धसेवकैः किं कर्त्तव्यम् ? इत्याह-तथा चेत्यादिना 'तथा चे ति-तथाहीत्यर्थः, ' यत्'-यस्मात् कारणात् , 'सिद्धाः'-सिद्धिं गताः, 'अमूर्तरूपाः'-मृतिविरहिताः, 'गताशनाः'-निराहाराः 'नीरुषाः'-गतद्वेषाः, 'वीतरागाः'-नीरागाः, 'निरञ्जना:'-अव्यक्ताः, निर्लेपा इति भावः 'निष्क्रियकाः'-क्रियारहिताः, गतारम्भा इति भावः, 'गतस्पृहाः'-इच्छारहिताः, निःस्पृहा इति भावः, 'अस्पर्धकाः'-स्पर्धारहिताः, 'बन्धन
१. गतारम्भाः । २. बन्धनं मानसं वाचिकं कायिकं च यथेदं तवाऽहं करिष्य इति त्रिकरणेनाऽपि मुक्ताः सन्धान सन्धिः | अमाननशीलानां भवद्भिरहं मान्य इति सन्धिः संश्लेषः सोऽपि त्रिकरणाश्रितस्तेन मुक्ताः । ३. पूर्णाः । ४. साधुभिः। ५. अनुसरणं । ६ सिद्धत्वं ।
%%%%%%%
%%%%%%