________________
धिकार
तस्वसार टीकायाम्
ऽवस्थितपदार्थराशिप्रकाशनशीलत्वम्, 'अस्वामिसेवित्वं'-स्वामिसेवाराहित्यम् , संसारसम्बन्धेनाऽयं मम स्वामी अहं
षोडशोऽचाऽस्य सेवक इति भावाभाव इत्यर्थः, 'अतीवसत्त्वता'-अत्यन्तं सतो गुणशालित्वम् , 'निर्भीकता'-भयराहित्यम् , IRI 'अल्पाशनता'-अल्पभोजित्वं, 'विशिष्टता'-वैशिष्ठ्यम , सर्वोत्कृष्टमिति भावः, 'संसारसम्बन्धजुगुप्सतादयः'-सम्बन्धे गर्हणताप्रभृतयः, 'ईदृशाः'-इत्थं प्रकाराः, ये 'अत्र'-मुमुक्षुषु, 'अभूवन्'-स्तोका गुणा आसन् , 'ते'-पूर्वोक्ता गुणाः, 'तु' शब्दो विशेषणार्थः, 'सिद्धिश्रितां'-सिद्धिं गतानां, मुमुक्षूणाम् , 'अनन्ता भवन्ति '-अन्तरहिता जायन्ते, अनन्तसङ्ख्याका भवन्तीत्यर्थः, कुत एतद्भवति ? इत्याह-क्षेत्रेत्यादिना 'क्षेत्रस्वभावादिति'-क्षेत्रस्य तथाविधस्वभाववशादित्यर्थः, | 'अथे ' ति समुच्चये, पक्षान्तरे वा, 'सिद्धभावात् '-सिद्धिप्राप्तिभावात् , ' यद्वा'-अथवा, 'शिवात् '-शिवप्राप्तिमा
वात् , कुत एतनिश्चीयते ? इत्याह-केवलीत्यादिना केवलिवाप्रमाणात् '-केवलज्ञानिनो वचोरूपप्रमाणेन एतन्निश्चीयत | इति शेषः ॥ ४-६॥
मूलम्-तत्सेवकेनापि तदीयशील-विधायिना भाव्यमिति प्रतीतम् ।
तथा च सिद्धा यदमूर्तरूपा, गताशंना नीरुषवीतरागाः ॥७॥ १. लोके । २. मया सिद्धाः स्मर्त्तव्या यथाऽहमप्येतादृशोऽपुनर्भावो भवामीति विचिन्त्य सिद्धान्स्वामित्वेन सम्पाद्य स्वमाVIत्मानं च तत्सेवकतया प्रकल्प्य यदि तत्सेवामाचरति तदेशेन तेन भाव्यमित्याह । ३. निराहाराः । ४. गतद्वेषाः ।