SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ जैन घोडशोऽधिकारः तत्त्वसार टीकायाम् १०८॥ %ACACASSACA+ ते सन्त्यमी सर्वजगत्स्वभावा-नित्यत्वदर्शाः पुनरेव ते तु । आनन्दपूर्णास्तदिमे सदान्तराः, सन्तोषपोषात्समभावभाविनः ॥१६॥ टीका-आत्मबलानुरूपं सिद्धगुणश्रयणामेव दर्शयति-तथाहीत्यादिना तथाही 'ति-तद्यथेत्यर्थः, यथेति शेषः, 'सिद्धाः '-अमूर्ताः-मूर्तिरहिताः, 'परिभान्ति'-प्रकाशन्ते, ' तथा '-तेनैव प्रकारेण, 'अमी'-साधवः, 'देहममत्वमुक्ताः '-शरीरविषयकमोहशून्या भवन्तीति शेषः, यत इति च शेषः, 'ते'-सिद्धाः, 'अरूपिणः'-रूपरहिता भवन्तीतिशेषः, 'तत्'-तस्मात् कारणात , ' इमे'-साधवः, 'शरीरसंस्कारसत्कारनिकारकाराः'-शरीरस्य यौ संस्कारसत्कारौ तयोनिकार:-निषेधस्तत्काराः-तत्कर्तारः, शरीरसम्बन्धिसंस्कारादरनिषेधका इति भावो भवन्तीति शेषः, यत इति च शेषः, 'अतः'-अस्मात् कारणात् , ' इमे'-साधवः, ' क्वचित्क्वचित् '-कुत्रापि कुत्रापि पर्वणि, सम इति शेषः, 'आहारवर्जाः'-त्यक्ताशना भवन्तीति शेषः, 'पुनरि'ति समुच्चये, 'एवे 'ति निश्चये, 'तु' शब्दश्वरणपूर्ती, यत इति शेषः, 'ते'-सिद्धाः, 'विद्वेषमुक्ताः'-द्वेषरहिता भवन्तीतिशेषः, 'इति'-अस्मात् कारणात् , 'एते'- साधवः, ‘रुच्या '-रुचिवशात् , 'सर्वसत्त्वमैत्रीवहाः'-सर्वप्राणिभिः सह मित्रत्वधर्तारः, 'इतीव'-एतादृशा इव भवन्तीति शेषः, यत इति विशेषः, 'ते'-सिद्धाः, 'वीतरागाः'-रागरहिता भवन्तीतिशेषः, ' इति '-अस्मात् कारणात् , ' इमे'-साधवः, ' बन्धुवन्धच्युता'-बन्धूनां बन्धनेन रहिता भवन्तीति शेषः, यत इति च शेषः, 'ते'-सिद्धाः, 'तु' शब्दश्चरणपूर्ती, 'निरअनाख्याः'-निरञ्जननामका भवन्तीति शेषः, 'तत् '-तस्मात् कारणात् , ' इमे'-साधवः, 'प्रीतिविलेपनाद्यैः शून्याः' ॥ १०८॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy