SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ मूलम् - त्वं चेतसि स्वे परिभावयैवं, लङ्काऽस्ति वा नो ननु वर्तते सा । त्वया मया सर्वजनैरपीय-माकर्ण्यते केन न मन्यते सा १ ॥ १० ॥ टीका — उदाहरणान्तरमभिधातुकाम आह-त्वमित्यादिना ' त्वं ' ' स्वे चेतसि स्वकीये मानसे, ' एवं ' - वक्ष्यमाणम्, 'परिभावय '- विचारय, 'यदि 'ति शेषः, ' लङ्काऽस्ति - लङ्का विद्यते, ' वा '- अथवा, 'नो'- नैवाऽस्तीतिशेषः, नास्तिक आह- नन्वित्यादि ' नन्वि ' ति वितकें, ' सा' - लङ्का, ' वर्तते ' - विद्यते, अत्र हेतुमाह-त्वयेत्यादिना ' त्वया - भवता, 'मया'' सर्वजनैरपि ' - अन्यैरपि सर्वजनैः, ' इयं ' - लङ्का, ' आकर्ण्यते ' - श्रूयते, ' तर्ही' ति शेषः, सा लङ्का ' केन' - जनेनेति शेषः, ' न मन्यते ' -न स्वीक्रियते, अपि तु स्वया मयाऽन्यैश्च सर्वैरपि जनैर्मन्यत एवेति भावः ॥ १० ॥ मूलम् - एवं तदा चेत्त्वमिह स्थितः सन्, लङ्कां पुरीं तां मम दर्शयाऽत्र । श्रुत्वेति सोऽभाषत नास्तिकाख्यः, इहस्थितैः कैर्ननु दश्यते सा १ ॥ ११ ॥ टीका – अत्राऽऽस्तिक आह- एवमित्यादि ' चेत् ' - यदि, ' एवम् ' - इत्थम्, अस्तीति शेषः, ' तदा ' - तर्हि, 'इह ' - अत्र, ' स्थितः सन् '-स्थितिं कुर्वन् सन् त्वं 'तां' - पूर्वोक्तां, 'लङ्कां पुरीम् ' - लङ्कानगरीस्, 'मम' - माम्, ' अत्र' - अस्मिन् स्थले, अत्र स्थितं मामित्यर्थः, ' दर्शय ' - दर्शनं प्रापय, ' इति ' - एतत्, 'श्रुत्वा '- निशम्य, 'सः'- पूर्वोक्तः, 'नास्तिकाख्यः - नास्तिकनामकः, 'अभाषत' - अब्रवीत्, 'नन्वि ' ति वितर्के, ' इहस्थितैः ' - अत्राऽवस्थितैः, 'कैः '- जनैरिति शेषः, 'सा'लङ्का, ' दर्श्यते ' - अत्रस्थिताः के लङ्कां दर्शयितुम् शक्नुवन्ति १ इति भावः ॥ ११ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy