________________
जैन
तत्त्वसार टीकायाम्
॥ १०३ ॥
टीका - अस्योत्तरमाह - मैवमित्यादिना ' हे कोविद ! ' - हे बुध !, नास्तिकं प्रत्युक्तिरियम्, 'मैवं वद इति ' - एवं मा कथयेत्यर्थः, यत इति शेषः, शक्तीत्यादि 'शक्तिः ' 'शम्भुः ' 'गणेशः ' ' वीरः' इत्यादिकानां देवानां ' संहतिः ' -समूहः, ' शैवाङ्गिमान्या ' - शैव प्राणिपूजनीया, शिवमतानुयायिप्राणिभिर्माननीयेत्यर्थः, 'अथे ' ति समुच्चये, 'फिरस्त पेगम्बरपीरमुख्या: ' - फिरस्त पेगम्बरपीरादयः, 'तुरुष्कपूज्याः ' - यवनानां पूजनीयाः सन्तीतिभावः, ' तदीयसेवोत्थिततादृशेन फलेने ' ति-तेषां सेवयोत्पन्नेन तादृशा फलेनेत्यर्थये इति शेषः, ' वेद्याः ' - ज्ञातुम् योग्याः सन्तीतिशेषः, ' ही ' ति चरणपूर्ती, निश्चये वा, ' ते ' - पूर्वोक्ता शक्त्यादयः, किं न सन्ति ' - न विद्यन्ते, अपि तु विद्यन्त एवेति भावः, उक्तविषयमेव दृढयतिसन्तीत्यादिना ‘ चेत् ’-यदि, ' ते ' - शक्त्यादयः, ' सन्ति ' - विद्यन्ते, ' तर्ही 'ति शेषः, ' इति ' - अस्मात् कारणात्, सत्ताकारणादित्यर्थः, ते इति शेषः, ' त्रिदशाः ' - देवाः सन्तीति शेषः, ' मर्त्याः ' - मनुष्या न सन्तीति शेषः, तर्हि ते कथं न दृश्यन्त ? इति शङ्कां परिहर्त्तुमाह-प्राय इत्यादिना 'प्रायः ' - बहुधा, 'कलिकालयोगतः ' - कलियुग समय सम्बन्धात्, कलियुगसमयभावादित्यर्थः, ते इति शेषः ' न दृश्याः '-न दर्शनीयाः सन्तीति शेषः, तेषामदृश्यत्व एव हेत्वन्तरमाह - दूरस्थेत्यादिना ' दूरस्थतद्योग्यनिवासभूमेरिति ' - तेषां शक्त्यादीनां देवानां योग्या या निवासभूमेर्दूरस्थितत्वकारणादित्यर्थः, 'मनुष्याः' - मानवाः, 'अगम्यतत्क्षेत्रपथाः ' - तेषां क्षेत्रस्य मार्गं गन्तुमयोग्याः सन्तीति शेषः, 'परन्तु '-किन्तु, ' इदमीयसत्ता - एषां शक्त्यादीनां देवानां सम्बन्धिनी सत्ताभावः, ' सिद्धास्तु ' - सिद्धिं गता भवन्ति, 'परन्त्वि 'ति शेषः, 'अत्र गतैः ' - अत्र स्थितैः, ' मादृशैः '-मादृग्जनैः, सा सत्तेति शेषः, 'नो प्रदर्श्या ' - नैव प्रदर्शयितुम् योग्याऽस्तीति शेषः ।। ७९ ।।
पञ्चदशोऽघिकारः
॥ १०३ ॥