________________
%A
मूलम्-सत्यं मुने! तत्फलतोऽपि पृष्ठगं, लक्ष्मावसेयं हि भवेदवश्यम् ।
परन्तु न स्वर्गपरेतलोको, कयापि योध्यौ ननु चेष्टयाऽपि ॥६॥ टीका-नास्तिकः प्राह-सत्यमित्यादि ' हे मुने!' हे मननशील !, 'सत्यमिति'-एतत्पूर्वोक्तं भवतः कथनं सत्यमस्ती&ीत्यर्थः, 'परन्त्वि'ति शेषः, 'ही'ति निश्चये, चरणपूर्ती वा, 'पृष्ठगं लक्ष्म'-पृष्ठे स्थितं चिह्न, 'तत्फलतोऽपि'-स्वफलद्वाराऽपि,
'अवश्यं '-निश्चयेन, 'अबसेयं भवेत्'-ज्ञातुं योग्यम् भवति, 'परन्तु'-किन्तु, ' नन्वि 'ति निश्चये, वितर्के वा, 'स्वर्गपरेतलोको'-स्वर्गनरको, 'कयापि '-कयाचित् , ' चेष्टयाऽपि'-चेष्टाद्वाराऽपि, 'न बोध्यौ'-न ज्ञेयौ भवत इतिशेषः ॥६॥ मूलम्-मैवं वद कोविद ! शक्तिशम्भु-गणेशवीरादिकदेवसंहतिः।
शैवाङ्गिमान्याऽथ तुरुष्कपूज्याः, फिरस्तपेगम्बरपीरमुख्याः॥७॥ तदीयसेवोत्थिततादृशेन, फलेन वेद्या न हि सन्ति ते किम् ? । सन्तीति चेत्ते त्रिदशा न माः, प्रायो न दृश्याः कलिकालयोगतः ॥ ८॥ दूरस्थतयोग्यनिवासभूमे-रगम्यतत्क्षेत्रपथा मनुष्याः।
परन्तु सिद्धास्त्विदमीयसत्ता, नो माशैरत्र गतैः प्रदर्या ॥९॥ १. एषामियमिदमीया सा चाऽसौ सत्ता च तथा देवसम्बन्धिनी सत्ता एतत्सिद्धौ हि सिद्धा एतद्विपरीतपापहेतुप्राप्या नरक| गतिसत्तेति स्वयमूखा ।
CTRESEARSASSAMAC+