SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ तत्त्वसार टीका-अत्र नास्तिकः शंकते विद्वमित्यादिना 'हे विद्वन् !'-विपश्चित् !, 'यथा'-येन प्रकारेण, 'अस्य'-पूर्वोक्तस्य पञ्चदशोऽ धिकार गादेः, 'ईक्षकमानवाः'-दर्शकजनाः, 'ततः परे'-गादियुक्तपुरुषाद् भिन्नाः, 'अनेके सन्ति'-बहवो वर्त्तन्ते, 'तथा'तेन प्रकारेण, 'स्वरीक्षकाः'-स्वर्गद्रष्टारः, 'घना:'-प्रभूता न सन्ति, फलितमाह-तस्येत्यादिना 'तस्य'-,गादेस्तु, 'अनि-2 रीक्षकः '-अद्रष्टा, ' सकः'-सः, एककः, 'अङ्क्येव '-शृंगादिचिह्नयुक्त एव भवति, 'तेन'-अंकिना, 'समं'-तुल्यं, | 'उत्तरम्'-भिन्नम् , सामान्ये क्लीवत्वप्रयोगः, नास्ति यथांकी स्वांका द्रष्टाऽस्ति तथाऽन्यः कोऽप्यंका द्रष्टा नास्तीतिभावः॥४॥ मूलम्-युक्तं परं नास्तिकतो घना जनाः, सन्त्यास्तिका आप्तवचः प्रमाणकाः । तत्प्रेत्यदर्शा निवसन्ति भूरिशो, लक्ष्मेक्षवन्नास्तिकवत्तु लक्ष्मवान् ॥५॥ टीका-उक्तशंका परिहर्तुमाह-युक्तमित्यादिना 'युक्तमिति'-एतत्तव कथनं युक्तमस्तीत्यर्थः, 'परं'-परन्तु, 'नास्तिकतः'-नास्तिकात् नास्तिकापेक्षयेत्यर्थः, 'आस्तिका जनाः' 'घनाः सन्ति'-प्रभूता विद्यन्ते, कथंभूताः? 'आप्तवचः प्रमाणकाः'-आप्तवचनं प्रमाणत्वेन मंतारः, 'तत्'-तस्मात् कारणात् , 'लक्ष्मेक्षवत् '-शृंगादिचिह्नद्रष्टतुल्याः , 'प्रेत्यदर्शाः'-परभवद्रष्टारः, 'भूरिश:'-अनेके, 'निवसन्ति'-तिष्ठन्ति, वर्तन्त इत्यर्थः, ' नास्तिकवत् '-नास्तिकतुल्यः, 'लक्ष्मवान् '-,गाद्यंकयुक्तोऽस्ति ॥५॥ . १. परभव । २. लक्ष्मेशा इव लक्ष्मक्षवत् लक्ष्मदर्शका इव | यथा लक्ष्मवान् अङ्की स्वाङ्गस्थमपि लक्ष्म न पश्यति तथा | नास्तिकोऽपि स्वर्गादि न पश्यति इति समानमुत्तरम् । ॥१०२॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy