________________
टीका-उक्तविषयस्योदारणमाह-पुंसो यथेत्यादिना 'यथा'-येन प्रकारेण, 'कस्यचित्'-कस्यापि, 'पुंसः'-पुरुषस्य, 'कन्धरापृष्ठस्थितः'-ग्रीवापृष्ठभागे स्थितः, 'वा'-अथवा, 'वंशकमध्यम:'-पृष्ठवंशे स्थितः, 'ग-भ्रमर, 'अथवा'-यदवा, 'लक्ष्म-चिहनम् स्वस्तिकादीत्यर्थः, 'च'-पुनः, 'कालकादि'-तिलकादि, अस्ति, परन्तु 'स'-पूर्वोक्तः पुरुषः, 'निजैः खैःस्वैरिंद्रियैः, 'तत्'-पूर्वोक्तम् भ्रमरादिकम् , 'स्वयं-स्वतः, परोपदेशमंतरेणेत्यर्थः, 'न जानाति'-न वेत्ति ॥२॥
मूलम्-यदा तु मात्रादिनिजाप्तवृद्ध-स्तवाऽत्र भृङ्गादि निगद्यतेऽदः।
- तदाऽपि तेनाऽप्यनुमन्यते तत्, परन्तु खैः स्वैर्न कदाचिदीक्ष्यम् ॥३॥ टीका-तर्हि कथं स भ्रमरादिकं वेत्तीत्याह-यदा वित्यादिना ‘यदा'-यस्मिन् काले, 'मात्रादिनिजाप्तवृद्धैरिति 'जनन्यादिभिः स्वकीयैसप्तैर्वृद्वैः पुरुषरित्यर्थः, 'अदः'-एतत् , 'निगद्यते'-कथ्यते, यत्तव 'अत्र'-अस्मिन्स्थले, 'भृगादि '-भ्रमरादिकमस्ति, ' तदाऽपि '-तस्मिन्कालेऽपि, जनन्यादिमिराप्तबद्धैः कथनेऽपीत्यर्थः, 'तेन'-पूर्वोक्तेन जनेन, 'तत् '-शृंगादि अपि, ' अनुमन्यते'-अनुमानविषयं नीयते, अनुमानेन ज्ञायत इत्यर्थः, 'परन्तु '-किन्तु, ' स्वैः खैःनिजैरिद्रियः, 'तत् '-शृंगादि, 'कदाचित् '-कदापि, 'नेक्ष्यम्'-न दर्शनीयम् भवति ॥३॥
मूलम्-विद्वन् ! यथास्येक्षकमानवास्ततो-ऽनेके परे सन्ति तथा स्वरीक्षकाः।
घना न तस्य त्वनिरीक्षकः सको,-ऽक्येवैककस्तेन समं न चोत्तरम् ॥४॥ १. स्वर्गे ।
C+ECCANCCC