________________
छ
पञ्चदशोऽधिकारा
तत्वसार
RRRRRrrr
अथ पञ्चदशोऽधिकारः
अदृष्टस्वर्गादिप्रमाणतां द्वादशश्लोकेनाहमूलम्-पुनश्च यद्देहबहिःस्थवस्तु, दृश्यं तदेवाङ्गिभिरीक्ष्यतेऽक्षः।
पावं तु यन्नास्ति न गृह्यते तत्, परोक्तिशक्त्या तदपीह मन्यते ॥१॥ टीका-नास्तिकमतपरिहारसैद्धान्तिकविषयपुष्टिसंबंध एवाऽवशिष्टविषयमाह-पुनवेत्यादिना 'पुनशे 'ति अन्यच श्रूयतामित्यर्थः, 'यत् देहबहिःस्थवस्तु'-शरीरवाद्ये स्थितं वस्तु, 'दृश्यं '-दर्शनीयमस्ति, 'तदेव'-वस्त, 'अंगिमिःप्राणिमिः, ' अक्षैः'-इन्द्रियैः, ' ईक्ष्यते '-अवलोक्यते, 'यत् '-वस्तु, इन्द्रियैः 'ग्राह्यं'-ग्रहीतुं योग्यम् , 'नास्ति'न विद्यते, 'तत् '-वस्तु, इन्द्रियैः न गृह्यते'-नादीयते, परन्तु 'इह'-अस्मिन्संसारे, 'तदपि '-पूर्वोक्तमपि वस्तु, 'परोक्तिशक्त्या'-परकथनसामर्थेन, परोपदेशेनेत्यर्थः, 'मन्यते'-जायते ॥१॥
मूलम्-पुंसो यथा कस्यचिदस्ति कन्धरा-पृष्ठस्थितो वंशकमध्यगो वा।
भृङ्गोऽथवा लक्ष्म च कालकादि, स्वयं न जानाति स तन्निजैः स्वैः ॥२॥ १. ग्रीवा । २. स्वस्तिकादि । ३. तिलकादि ।
ARA