________________
%A4%
कारस्य, 'जीवस्य'-आत्मनः, ये 'अनाकृतयः'-आकाररहिताः, 'गुणाः सन्ति'-ज्ञानादयो गुणा विद्यन्ते, 'ते'| पूर्वोक्ता अनाकृतयो गुणाः, न दृश्याः सन्ति ॥ ३२ ॥
मूलम्-इतीयता सिद्धमिदं यदत्र खै-चिं तदेव प्रतिगृह्यते तैः।
अन्यद्यदाप्तैरुदितं तदेव, सत्यं नृणां खानि तु सर्वशि नो ॥ ३३ ॥ टीका-फलितपूर्व निगमनमाह-इतीयतेत्यादिना 'इतीयता'-एतावता कथनेनेत्यर्थः, 'इदम्'-एतत् , 'सिद्धम्'सिद्धिपगतम् भवति, यत् ' अत्र'-अस्मिन्संसारे, 'यत्'-वस्तु, 'खैः'-इंद्रियैः, 'ग्राह्यं'-ग्रहीतुम् योग्यमस्ति, 'तदेव'वस्तु, 'तैः'-इंद्रियः, 'प्रतिगृह्यत'-आदीयते, 'अन्यम्'-भिन्नम् , इंद्रियग्राह्यवस्तुभ्योऽन्यदितिभावः, 'यत्'-वस्तु, 'आप्तैः'-यथार्थवक्तृजनैः, 'उदितं'-कथितम् , 'तदेव'-वस्तु, 'सत्यं '-यथार्थमस्ति, यतः 'तु' शन्दश्चरणपूत्तौं, 'नृणां'-मनुष्याणाम् , “खानि '-इंद्रियाणि, 'सर्वदंशि'-सकलवस्तुष्ट्रणि, 'नो'-नैव संति ॥ ३३ ॥
Ach
श्रीजैनतत्त्वसारे नास्तिकस्य प्रत्यक्षप्रमाणाबोइन्द्रियावगमाधिक्योक्तिलेश:
चतुर्दशोऽधिकारः