________________
जैन
चतुर्दशोऽ
साधिकारः
परोपदेशेनेतिभावः, 'तत्'-पूर्वोक्तं वस्तु, 'वेय'-ज्ञातुम् योग्यम् भवति, तथा 'अस्य '-पूर्वोक्तस्य शरीरमध्यस्थितांत्रतत्त्वसार
शुक्रादिरोगगणस्य, 'स्वसत्ता'-आत्मीयो भावः, 'प्रशमात् '-औषधादिना शान्तः ज्ञायते सामान्यमत्यैः ॥२९-३०॥ .१०॥
मूलम्-इदं विदां सुन्दर ! स त्वमैद-पर्य विजानीहि मयोच्यमानम् ।
वस्त्वस्ति यत्प्राणभृदङ्गभाग-भूतं प्रदृश्यं न परन्त्वमूर्त्तम् ॥३१॥ टीका-फलितमेव दृढयति-इदमित्यादि ' हे विदां सुन्दर!'-हे पण्डितानां मध्ये श्रेष्ठ, नास्तिकं प्रत्युक्तिरियम् , 'सः'-पूर्वोक्तः, त्वम् मया 'उच्यमानम्'-कथ्यमानम् , 'इदं'-वक्ष्यमाणम् , 'ऐदंपर्यम्'-तत्त्वं, 'विजानीहि'-विद्धि, ता' यत्'-यद् वस्तु, 'प्राणभृदङ्गभागभूतम्'-प्राणधारिशरीरावयवभूतं, ' अस्ति'-विद्यते, तत् 'प्रदृश्यं '-दर्शनीयम् भवति, PI परन्तु, 'अमूर्त्तम् '-मूर्त्तिविरहितम् वस्तु न प्रदृश्यं भवति ॥ ३१ ॥
मूलम्-अतः किलाकारवतोऽनिनोऽङ्गजं, तद्गभूतं च यदस्ति वस्तु ।
दृश्यं तदेवाथ न सन्त्यनाकृते-जीवस्य येऽनाकृतयो गुणास्ते ॥ ३२॥ टीका-उक्तविषयमेव दृढयति-अत इत्यादिना 'अतः'-अस्मात् कारणात् , 'किले 'ति निश्चये, 'यत'-वस्तु, | 'आकारवत् '-आकारयुक्तस्य, 'अंगिनः '-शरीरधारिणः, 'अंगजम्'-अंगोत्पन्नम् , 'च'-पुनः, 'तदंगभूतमस्ति'प्राणधारिशरीरावयवभूतं विद्यते, 'तदेव'-वस्तु, 'दृश्यं'-दर्शनीयम् भवति, 'अथे 'ति अनंतरे, 'अनाकृतेः'-अना
१. विदः पण्डिताः तेषां मध्ये सुन्दर । २. जीवशरीरभागजातं वस्तु ।
M
॥१०॥