________________
लाचतुर्दशोऽ
धिकार
वलसार
GARH
स्थाने परं सर्वमिदं हि केवली, ज्ञानेन जानाति यदेव वस्तु सत् ।
अतस्तदीयं वचनं प्रमाणं, यदुच्यते तेन परावबुध्यै ॥२०॥ टीका-एतेन किं भवतीत्याह-एतस्येत्यादिना 'ही'ति निश्चये, चरणपूत्तौं वा, 'एतस्य सिद्धावि 'ति-गुप्तशरीरनरशक्तिमहेशादीनां सिद्धौ सत्यामित्यर्थः, 'परोक्षसिद्धिः'-परोक्षस्य साधनम् भवति, तथा 'तत्सेधनात् '-परोक्षस्य सिद्धेः, 'स्वर्गपरेतसिद्धिः-स्वर्गनरकयोः सिद्धिर्भवति, नास्तिकः प्राह-न दृश्यत इत्यादि 'भोः' इत्यामंत्रणे, 'नन्वि 'ति वितर्के, 'यत्'-वस्तु, 'चेष्टया'-चेष्टाद्वाराऽपि, 'न दृश्यते'-नावलोक्यते, 'तद्वस्तु'-तादृग्वस्तु, 'ही'ति चरणपूत्तौं, 'सत्'-विद्यमानम्, 'कथं'-केन प्रकारेण, ' इष्यते'-मन्यते, अस्योत्तरमाह-स्थान इत्यादिना 'स्थाने'-एतत्-पूर्वोक्तं तव कथनमुचितमस्तीत्यर्थः, 'परं'-परन्तु, 'ही'ति निश्चये, यदेव वस्तु 'सत्'-विद्यमानमस्ति, 'इदं सर्वम्'-तत्सकलं, 'केवली'-केवलज्ञानयुक्तः, 'ज्ञानेन'-ज्ञानद्वारा, 'जानाति'-वेत्ति, 'अतः'-अस्मात् कारणात् , 'तेन'-केवलिना, 'परावबुध्यै '-अपरज्ञानाय, 'यदुच्यते'-यत् किंचित् कथ्यते, तत् सर्वम्, 'तदीयं वचनम् '-केवलिनः कथनं, 'प्रमाणं'-प्रमाणरूपमस्ति ॥ १९-२०॥
मूलम्-त्वं पश्य लोकेऽपि जनैर्न चान्यै-र्यज्ज्ञायते तत्किल दृश्यतेऽलम् ।
नैमित्तिकैरेव यथोपरागो, ग्रहोदयो गर्भधनागमादि ॥ २१ ।। १. ग्रहणं । २. मेघवृष्टयादि ।
ESCORRECE