SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ टीका-एतदेवोदाहरणेन दृढयति-त्वं पश्येत्यादिना त्वम् ‘पश्य'-विचारयत, यत् 'लोकेऽपि'-संसारेऽपि, 'अन्यैजनैः' इतरपुरुषः, यत्'-वस्तु, 'न ज्ञायते'-नावबुध्यते, 'च' शब्दश्वरणपूर्ती, 'तत्'-वस्तु, 'किले 'ति निश्चयेन, 'यत्'-ज्ञात्रा, 'अलम् '-पर्याप्तत्वेन, 'दृश्यते'-ज्ञायते, उदाहरणमाह-नैमित्तिकरित्यादिना 'यथा -येन प्रकारेण, 'उपरागः'-ग्रहणम् , ' ग्रहोदयः'-सूर्यादीनामुदयः, 'गर्भधनागमादि'-मेघवृष्ट्यादिकम् , 'नैमित्तिकैरेव -निमित्तशास्त्रज्ञातृभिरेव, ज्ञायते नवाऽपरैर्जायते ॥ २१ ॥ मूलम्-तथा व्यतीतं सकलं ब्रवीति, पृष्टं तु चूडामणिशास्त्रवेदी। निदानवैद्योऽखिलरुग्निदानं, निवेदयत्याशुन चाऽन्यलोकः ॥ २२॥ परीक्षको वेत्यथ नाणकस्य, यथा परीक्षां न परो मनुष्यः। पदं पदज्ञः शकुनं च तज्ज्ञो, यथा विजानाति परो न तद्वत् ॥ २३ ॥ अतस्त्वकं विद्धि जनोऽखिलोऽन्यः, सर्वेन्द्रियोऽप्यत्र न वेत्ति तद्वत् । यथैव नैमित्तिकमुख्यलोक-स्तदक्षतः कोऽप्यपरोऽस्ति बोधः ।। २४ ॥ टीका-उदाहरणांतराभिधातुकाम आह-तथेत्यादि 'तथा'-उक्तरीत्या, 'चूडामणिशास्त्रवेदी'-अईच्चूडामणिनाम्ना १. त्वं । २. इन्द्रियेभ्यः । ३. बानम् । * अस्य श्लोकत्रयस्य टीका लिखितहस्तादर्श नोपलभ्यते, इत्यतोऽभ्यासिनाम् सुखेनेतदर्थावगमाय साऽत्र मया संदभ्य निवेशिता-पण्डित हरगोविन्ददासः। SACAREENA%AR
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy