________________
तदाश्रितार्थादिकृतेस्तु तस्य, सत्ता तथा शक्तिमहेशवीराः।
भूतं सती जागुलिका सपत्नी, सिद्धायिकादेरपि तद्वदेव ॥ १८ ॥ टीका-उदाहरणान्तरमभिधातुकाम आह-तथेत्यादि 'तथे 'ति समुच्चये, 'औषधीमन्त्रगुडाविशेषैः '-औषधमंत्रगुटिकाविशेषः, तथा 'लोकाञ्जनैः'-अदृश्यकरणाञ्जनेन, 'गुप्ततनोनरस्य'-गुप्तशरीरस्य जनस्य, 'मूर्तिः'-शरीरम, 'तु' शब्दश्वरणपूतों, 'नृणाम् '-पुरुषाणाम् , ' दृक्पथं नो एति'-नेत्रमार्गम् नाऽऽयाति, नेत्रेण न दृश्यत इतिभावः, 'तत् 'तर्हि, 'सः'-गुप्तशरीरो नरः, 'नास्ति'-न विद्यते, 'इति '-एतत् , 'खैः'-इन्द्रियैः, 'किं न गृह्यते -किं न निश्ची| यते? अपि तु नास्तींद्रियैर्निश्चीयत एवेतिभावः, 'वि'ति किन्त्वित्यर्थः, 'तदाश्रितार्थादिकृतेः'-तस्य-गुप्तशरीरस्याऽऽश्रितो योऽर्थः, आनयनमोचनादिकं कार्य तदादिकृतोस्तत्प्रभृतिकरणात् तस्य गुप्तशरीरस्य सत्ताभावोऽस्ति त्वमित्यर्थः सिद्ध्यति,
'तथे 'ति समुच्चये, 'तद्वदेव'-उक्तरीत्यैव, गुप्तशरीरपुरुषवदेवेत्यर्थः, शक्तिः , महेशः, वीरः, भूतम् , सती, जाङ्गुलिका, है| सपत्नी, इत्येतेषाम् , तथा 'सिद्धायिकादेरपि '-सिद्धायिकाप्रभृतिकस्यापि सिद्धिर्भवति ॥ १७-१८ ॥
चेष्टयाऽदृष्टमपि मन्तव्यं पञ्चदशश्लोकैराहमूलम्-एतस्य सिद्धौ हि परोक्षसिद्धिः, तत्सेधनात् स्वर्गपरेतसिद्धिः।
न दृश्यते यन्ननु चेष्टयापि, कथं हि तद्वस्तु सदिष्यते भोः ॥ १९ ॥ १. तस्याश्रितं यत्कार्य भानयनमोचनादिकं तस्य करणात् । २. नरक । ३. नास्तिकः पुनः प्राह ।
SANSACX4