SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ E जैनतस्वसार चतुर्दशोsधिकारः AR 'तदा'-तर्हि, माणिक्यमुख्यानाम् 'भिन्नविभिन्नवक्रयः'-भिन्न भिन्न मूल्यं, 'कथं '-कुत उच्यते ? 'परन्तु '- किन्तु, 'कश्चित् '-कोऽपि, 'प्रतिभाविशेषः '-प्रत्युत्पन्नमतित्वं, प्रतिमा तस्य विशेषः-वैशिष्टम् भवति, 'येन'-यद्वशात् , ' तद्गतमूल्यनिश्चयः'-माणिक्यस्य मूल्यनिश्चयनम् , ' उच्यते '-कथ्यते ॥ १४-१५ ॥ मूलम्-तथाहिफेनादिकजोटकेषु, प्रायो विमुह्यन्ति समेन्द्रियाणि । प्रमाणमेतेषु तदुत्थमत्तता, तेनेन्द्रियज्ञानमृतं न सर्वम् ॥ १६ ॥ टीका-उदाहरणांतरमाह-तथेत्यादिना 'तथे 'ति समुच्चये, 'अहिफेनादिकजोटकेषु'-अहिफेनादिपदार्थयोगेषु, 'प्रायः'-बहुधा, ' समेन्द्रियाणि '-सर्वाणींद्रियाणि, 'विमुह्यन्ति'-मोहं प्राप्नुवन्ति, अज्ञानयुक्तानि भवन्तीतिभावः, 'एतेषु'-अहिफेनादिकजोटकेषु, अहिफेनादिकजोटकपरिच्छेदेष्वित्यर्थः, ' तदुत्थमत्तता'-अहिफेनादिजोटकोत्पनोन्मत्तता, 'प्रमाणं'-प्रमाणरूपा भवतीति, फलितमाह-तेनेत्यादिना 'तेन'-कारणेन, ' सर्वे'-सकलं, 'इन्द्रियज्ञानं'-श्रोत्रादींद्रियजन्यं ज्ञानम् , 'ऋतं'-सत्यं नास्ति ॥ १६ ॥ मूलम्--तथौषधीमन्त्रंगुडाविशेषै-लोकाञ्जनैर्गुप्ततनोनरस्य । - मूर्तिस्तु नो दृक्पथमेति नृणां, तत्कि से नास्तीति न गृह्यते खैः ॥ १७ ॥ १. सत्यं । २. गुष्टिका । ३. अदीकरणाअनेन । ४. शरीरं । ५. गुप्ततनुः । * * *
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy