________________
निर्धर्षणतनतापतानोत्पन्नं ज्ञानं, 'तदर्थसत्याय'-स्वर्णादिपदार्थसत्यत्वविनिश्चयाय, भवति, 'न केवलाक्षमिति'केवलं नेत्रोत्पन्नं ज्ञानं स्वर्णादिवस्तुसत्यत्वविनिश्चयाय न भवतीतिभावः ॥ १३ ॥ मूलम्-माणिक्यमुख्येषु पदार्थराशिषु, समाक्षविंद्रत्नपरीक्षिकातः।
तथापि तेषामधिकोनवक्रयो, निगद्यते रत्नपरीक्षकैः किम् ? ॥१४॥ सर्वेषु सर्वाणि समानि खानि, तदा कथं भिन्नविभिन्नवक्रयः।
परन्तु कश्चित्प्रतिभाविशेषो, येनोच्यते तद्गतमूल्यनिश्चयः ॥१५॥ टीका-उदाहरणांतरमाह-माणिक्येत्यादिना 'माणिक्यमुख्येयु'-माणिक्यादिषु, ‘पदार्थराशिषु -वस्तुसमहेप, यद्यपि 'समाक्षवित '-समानमिन्द्रियज्ञानं भवति, ' तथापि'-तदपि, 'रत्नपरीक्षिकातः'-रत्नपरीक्षाशास्त्रात , ' तेषाम| माणिक्यमुख्यानाम, 'अधिकोनवक्रयः'-अधिका-प्रभूत ऊनः-न्यूनश्च वक्रयः-मूल्यम् , वष्टिभागुरिरल्लोपमवाप्योरुपसर्गरित्यकारलोपः, 'रत्नपरीक्षकैः'-रत्नपरीक्षाकारकैः, 'कि निगद्यते ?'-कथं कथ्यते ?, अस्यैव पुष्टिमाह-सर्वेष्वित्यादिना 'सर्वेषु'-सकलेषु रत्नपरीक्षकेषु, 'सर्वाणि'-सकलानि, 'खानि '-इंद्रियाणि, 'समानि'-तुल्यानि सन्ति,
१. माणिक्यमुख्येषु रत्नपरीक्षावेदिनां यद्यपि पश्चेन्दियाणामपि विषयो वर्तते तथापि रत्नपरीक्षकैः सर्वेन्द्रियाकारसाम्येऽपि न्यूनमधिकं वा मूल्यं तत्र केनायं विशेषः क्रियते एतदेवाह । २. रत्नपरीक्षिका रत्नपरीक्षाशास्त्रं तस्याः सकाशात् । ३ | मूल्यं । ४. माणिक्य ।