________________
जैनतत्त्वसार
॥ ९५ ॥
तस्मिन् पदार्थे, ‘नेत्रश्रवसोः’- नयनकर्णयोः, 'ज्ञानं' 'तदर्थकृत्' - तदर्थकारिः, तत् पदार्थप्रयोजनग्राहयितुं न भवति ||११|| मूलम् - यथा सिताम्रादि सुगन्धिवस्तुषु श्रोत्राक्षिनासारसनासमुत्थं । ज्ञानं यदप्यस्ति तथापि केषुचि-तेषु प्रमाणं रसनावबोधनम् ॥ १२ ॥
टीका — उक्तविषयस्योदाहरणमाह-यथेत्यादिना ' यथा ' - येन प्रकारेण, 'सिताश्रादिसुगन्धिवस्तुषु ' - कर्पूरादिसुगंधयुक्तपदार्थेषु, ' यदपि ' - यद्यपि, ' श्रोत्रादिना सारसनासमुत्थं ज्ञानमस्ति '-कर्णनेत्रघाणजिह्वोत्पन्नं ज्ञानं विद्यते, “ तथापि ' - तदपि, ' तेषु ' - तेषां मध्ये, 'केषुचित् ' - केष्वपि पदार्थेषु, 'रसनावबोधनम् ' - जितेंद्रियज्ञानं, ' प्रमाणं 'प्रमाणरूपम् भवति ॥ १२ ॥
मूलम् - स्वर्णादिके वस्तुनि कर्णनेत्र - ज्ञानं स्फुरत्येव तथापि तत्र । निर्घर्षणादिप्रभवोऽवबोध - स्तदर्थसत्याय न केवलाक्षम् ॥ १३ ॥
टीका - उदाहरणांतरमाह - स्वर्णादिक इत्यादिना 'स्वर्णादिके वस्तुनि ' - सुवर्णादिपदार्थे, यद्यपि, ' कर्णनेत्रज्ञानं - श्रोत्रचक्षुर्ज्ञानं, 'स्फुरत्येव ' - निश्चयेन प्रस्फुरणं गच्छति, तथापि ' तत्र ' - स्वर्णादिके वस्तुनि, 'निर्धर्षणादिप्रभवोऽवबोधः '
१. सत्स्वपन्द्रियेषु इन्द्रियज्ञानात् निर्घर्षणच्छेदनतापताडनोत्थपरीक्षाभवं यत् ज्ञानं तदेव स्वर्णादिसत्यतासम्पादकं स्यात् न हि स्वर्णशब्देभ्य स्वर्णवर्णे य दृष्टे स्वर्ण सत्यमिति वक्तुं शक्यते किन्तु निर्घर्षणादिभवेन तञ्च कषपट्टलोइाग्न्यादिहेतुजं तत्संयोगानन्तरमेव तत्रेन्द्रियगोचरप्रवृत्तिर्नस्वतस्तत्प्रागेवेति विचार्यम् |
चतुर्दशोऽधिकारः
॥ ९५