________________
केचित्वित्यादिना ' तु' शब्दो व्यतिरेक प्रदर्शनार्थः, ' ही 'ति चरणपूत, निश्चये वा, ये ' केचित् ' - केपि, 'संयोगभवाः' - संयोगजन्याः, परसंयोगजाता इतिभावः, 'शब्दा भवन्ति' - ते शब्दाः सन्त्येव वर्त्तन्त एव, 'केपांचित् '- संयोगजानामपि, शब्दानां वाच्यः पदार्थों विद्यते एवेतिभावः तेन किं भवतीत्याह - तद्विरह इत्यादिना ' प्राय: ' - बहुधा, ' तद्विरहः 'तेषां शब्दानां वियोगः, तद्वाच्यवस्तूनां वियोग इत्यर्थः, न भवति एतदुदाहरणान्याह - यथा हीत्यादिना ' ही 'ति चरणपूर्ती, 'यथा' - येन प्रकारेण, 'गोशृंगेत्यादि ' - गोभृंगं - गोर्विषाणं, नरेन्द्रकञ्जः - नृपतिकेशः, अवनीरुहः - वृक्षः, गोपतिः - गोपालः, भूधरः - पर्वतः, ' इत्याद्याः ' - एतत्प्रभृतिकाः शब्दा भवन्ति, 'च' - पुनः, ' अनेके ' - बहवः शब्दाः, संयोगजन्याः, तथा 'वियोगतः ' - बियोगेन, पदवियुक्तिजन्या इतिभावः, 'सन्ति' - वर्त्तन्ते, ते 'विबुधैः ' - विपश्चिद्भिः, 'विवेच्याः '-विवेचनीयाः, स्वयम्या इत्यर्थः ॥ ९-१० ॥
4
मूलम् - श्रोत्राक्षिमुख्येन्द्रियरूपग्रांथे, परन्त्वतन्नामनि तस्य नाम्नि | अर्थे तथाsन्याश्रितरूपवेषके, ज्ञानं न नेत्रश्रवसोस्तदर्थकृत् ॥ ११ ॥
टीका - ऐंद्रियज्ञानस्य न सर्वथाऽर्थपरिच्छेदकत्वमिति वक्तुकाम आह-श्रोत्राक्षीत्यादि 'श्रोत्राक्षिमुख्येंद्रियरूपग्राझे - कर्णनेत्रादींद्रियग्रहणीये कर्पूरादिवस्तुनि, ' परन्तु 'अवन्नाग्नि' - तद्भिन्ननाम्नि, लवणादिखण्ड इत्यर्थः, 'तस्य नाम्नि 'कर्पूरादिनामके पदार्थे, 'तथे 'ति समुच्चये, 'अन्याश्रितरूपवेषकेऽर्थे ' - अन्यस्य द्वितीयस्याश्रितौ रूपवेषौ येन सः, ' तथा '१. वस्तुनि । २. लवणादिखण्डे । ३. कर्पूरादेर्नामनि पदार्थे इत्यर्थः ।