________________
जैनत्वसार
चतुर्दशोऽ
धिकार
॥ ९४॥
मूलम्-एवं नभापुष्पमरीचिकाम्भ:-खरीविषाणप्रमुखा अनेके ।
एताशा ये किल सन्ति शब्दाः, संयोगजास्ते किल नैव युक्ताः ॥८॥ टीका-संयुक्तशब्दोदाहरणांतराण्यभिधातुकाम आह-एवमित्यादि 'एवम् '-अनया रीत्या, 'नभ इत्यादि '-नमः पुष्पम्-आकाशकुसुमम् , मरीचिकाम्भ:-मृगतृष्णाजलम् , खरीविषाणं-गर्दभीशृंगम् , एतत् प्रमुखाः-एतद् आद्या ये, 'अनेके - बहवः, ' एतादृशाः'-इत्थंप्रकाराः, किले 'ति निश्चये, 'संयोगजाः'-पदसंयोगजन्याः, 'शब्दाः' 'सन्ति'-वर्त्तन्ते, ते शब्दाः 'किले 'ति स्ववार्तायाम् , ' युक्ता नैव'-योग्या नैव सन्ति, वाच्यार्थाभिधानसमर्था न सन्तीतिभावः ॥ ८॥ मूलम्-कर्णेन्द्रियग्राह्यतयापि नैषां, सत्ताऽस्ति तन्नेन्द्रियगोचरः सैन् ।
केचित्तु संयोगभवा हि शब्दाः, सन्त्येव ते तद्विरहो न प्रायः॥९॥ यथाहि गोशृङ्गनरेन्द्रकञ्जा-वनीरुहागोपतिभूधराद्याः।
संयोगजाः सन्ति वियोगतश्च, शब्दा अनेके विबुधैर्विवेच्याः ॥१०॥ टीका-उक्तशब्दायोग्यत्वमेव दृढयति-कर्णेन्द्रियेत्यादिना 'एषां'-पूर्वोक्तानाम् , वंध्यासुतादिसंयुक्तशब्दानाम् , 'कर्णेद्रियग्राद्यतयाऽपि-श्रोत्रंद्रियग्राह्यभावेनापि, श्रोत्रंद्रियेण ग्रहणे सत्यपीतिभावः, 'सत्ता नास्ति'-भावो न विद्यते, फलितमाहतदित्यादिना 'तत्'-तस्मात् कारणात् , ' इन्द्रियगोचरः'-श्रोत्रादिविषयः, 'सन् '-सत्यः, नास्ति, अतो व्यतिरेकमाह
१. सत्यः ।