________________
द्रियेण ग्राह्याः-ग्रहीतुं योग्याः, वर्णाः-अक्षराणि येषां ते तथा सन्ति, पुनः कथंभूताः ! सन्तीत्याह-स्वस्वेत्यादिना 'स्वस्वस्वभावेन '-स्वकीयस्वकीयस्वभावद्वारा, 'उपस्थितम्'-उत्पन्नम् , यत् 'तथाविधं फलं'-तत्प्रकारं फलं. तेन 'अनुमेयाः'-अनुमातं योग्याः, निजनिजस्वभावोत्पन्नविविधप्रकारकफलज्ञेया इतिभावः, सन्ति, पुनश्च कथंभताः ? सन्तीत्याह-किलेत्यादिना 'किले 'ति निश्चयेन, 'केवलीक्ष्याः'-केवलज्ञानिना दर्शनीयाः सन्ति ॥ ४-६ ॥
मूलम्-ये सन्ति शब्दास्तु पदद्वयादिना, संयोगजास्ते भुवि सन्ति वा नो।
- यथा हि बन्ध्याऽस्ति सुतोऽपि चाऽस्ति, वन्ध्यासुतश्चेति न युक्तशब्दः ॥७॥ टीका-- अत्र विशेषमाह-ये सन्तीत्यादिना 'तु' शब्दो व्यवच्छेदार्थः, 'ये '-शब्दाः, ‘पदद्वयादिना संयोगजाः सन्ति -द्विपदप्रभृतिसंयोगजन्या वर्तन्ते, द्विपदत्रिपदादिसंयोगोत्पन्ना सन्तीतिभावः, ते पदद्वयादिसंयोगजाः शब्दाः पदद्वयादिसंयोगजन्यशब्दवाच्याः पदार्था इतिभावः, 'भुवि'-पृथिव्यां, संसार इत्यर्थः, 'सन्ति'-विद्यन्ते, 'वा'अथवा, 'नो'-नैव सन्ति, अस्योदाहरणमाह-यथा हीत्यादिना 'ही'ति निश्चये, चरणपूतौ वा, 'यथा'-येन प्रकारेण, 'वन्ध्याऽस्ती 'ति-वंध्याशब्दवाच्यः पदार्थोऽस्तीत्यर्थः, 'च'-पुनः, 'सुतोऽप्यस्ती 'ति-सुतशब्दवाच्यः पदार्थोऽप्यस्तीतिभावः, परन्तु 'च'कारश्चरणपूत्तौं, 'वन्ध्यासुत इति युक्तशब्दो ने 'ति-वन्ध्यासुतरूपपदद्वयसंयोगजन्यशब्दवाच्यः पदार्थो नास्तीतिभावः ॥ ७ ॥