SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ तत्वसार CARSA विधिनिषेधः परमाणुपुद्गलः, कर्माणि सिद्धाः परमेश्वरस्तथा । है चतुर्दशोऽ धिकार इत्यादिशब्देषु न चेष्टयापि, केचित्सुधीभिः प्रतिपादनीयाः ॥५॥ किन्त्वेकतः सत्पदतः प्ररूप्याः, तथैककर्णेन्द्रियग्राह्यवर्णाः। स्वस्वस्वभावोत्थिततत्तथाविध-फलानुमेयाः किल केवलीक्ष्याः ॥ ६॥ टीका-सत्पदवाच्यमन्यद् रक्तुकाम आह-काल इत्यादि कालः'-समयः, 'स्वभावः'-आत्मीया सत्ता, 'नियतिः'-नियमः, 'पुराकृतं'-पूर्व विहितं कर्म, 'तथेति समुच्चये, 'उद्यमः'-पुरुषकारः, 'प्राणः'-हृदयस्थो वायुः, शक्तिः, गंधा रसो वा यद्वा प्राणा:-असवः, 'मनः'-चित्तम् , ' असुमन्तः'-आत्मानः, 'आकाशं'-नभः, 'संसार:'लोकः, तनुचेतनात्मकं जगदिति यावत्, "विचार:'-परामर्शः, 'धर्मः'-पुण्यम् , 'अधर्म:'-पापम् , 'आधि:'-मानसी व्यथा, 'मोक्षः'-मुक्तिः, 'नरकं'-श्वभ्रम् , 'ऊर्ध्वलोकः'-ऊर्ध्वस्थायी लोकः, 'विधिः'-शास्त्रोक्तविधानम् , 'निषेधः'-| निवर्तनम् , 'परमाणुपुद्गल इति '-अणवः शरीरं चेत्यर्थः, 'कर्माणि '-कार्याणि, 'सिद्धाः'-सिद्धिं गताः, 'तथे ति समुच्चये, 'परमेश्वरः'-ईश्वरः, ' इत्यादिशब्देषु'-एतत्प्रभृतिषु शब्देषु, 'केचित् '-केऽपि शब्दाः, 'सुधीभिः'-पण्डितैः, 'चेष्टयाऽपि'-चेष्टाद्वाराऽपि, 'न प्रतिपादनीयाः'-न कथनीयाः सन्ति, तहि कुतः प्ररूप्यास्ते ? इत्याह-कित्वेकत इत्यादिना किंतु 'एकतः'-सत्पदत इति, एकेन सत्पदेनेत्यर्थः, 'प्ररूप्याः'-प्ररूपयितुं योग्याः, ते शब्दाः सन्ति, पुनः कथंभृताः ? सन्तीत्याह-तथेत्यादिना 'तथे 'ति समुच्चये, 'एककर्णेन्द्रियग्राह्यवर्णाः '-एकेन-केवलेन कर्णेन्द्रियेण-श्रोत्रं.
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy