________________
तद्विद्यते यन्ननु सत्पदेन, वाच्यं भवेद् वस्तु तदत्र किं स्यात् ? । यच्छन्दजातं गदितं पुरैव, तथा पुनः किंचिदनुच्यतेऽत्र ॥ ३ ॥
टीका - किं तत्यादि नास्तिक: 'निजगाद ' -उवाच, उक्तकथने सति नास्तिको ब्रूत इत्यर्थः कथं किं ब्रूत ? इत्याह-किं तर्हीत्यादिना यत् ' तर्हि ' - तदा, ' किं ' ' सत्यम् ' - यथार्थमस्ति, यदि ममोक्तं सत्यं नास्ति तर्हि किं सत्यमस्तीतिभावः, ' आस्तिकः ''शुद्धम् ' - विगतदोषम् शुद्धभावेनेत्यर्थः, ' तदुत्तरं ' - ममोक्तकथनस्योत्तरं, ' यच्छतु 'ददातु, अस्योत्तरमाह-यदेकेत्यादिना 'एकशब्देने 'ति - एकपदेनेत्यर्थः, 'निगद्यमानम् ' - कथ्यमानम्, वाच्यमितिभावः, यत् अस्ति तत् ' प्रवीणाः ' - चतुराः, ' सत्पदमिति प्राहुरिति ' -सत्पदेतिनाम्ना कथयन्तीत्यर्थः, ' नन्वि 'ति निश्चयेन,
4
यत् ' - वस्तु, ' सत्पदेन वाच्यं भवेदिति -सत्पदेन कथनीयमस्तीत्यर्थः, ' तत् ' - वस्तु, ' विद्यते ' वर्त्तत एव नास्तिक आह- ' तदत्र किं स्यादिति -सत्पदवाच्यं वस्त्वत्र किं विद्यत इत्यर्थः, आस्तिकः प्राह - यच्छन्देत्यादि ' यच्छन्दजातं ' - यः शब्दसमूहः, 'पुरैव' - पूर्वमेव, 'गदितं ' -कथितं मया, तत्सत्पदवाच्यमस्ति, 'तथा पुनरि 'ति - अन्यच्चेत्यर्थः, 'किंचित्'किमपि, सत्पदवाच्यम्, ' अत्र ' - अस्मिन्स्थले, ' अनुच्यते ' - पुनः कथ्यते ॥ २-३ ॥
मूलम् - कालः स्वभावो नियतिः पुराकृतं तथोथमः प्राणमनोऽसुमन्तः । आकाशसंसारविचारधर्मा-धर्माधिमोक्षा नरकोर्ध्वलौकौ ॥ ४ ॥