SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ जैनतत्वसार चतुर्दशोऽधिकार .९२॥ AAAAART अथ चतुर्दशोधिकारः। - - - परोक्षप्रमाणमपि मन्तव्यमष्टादशश्लोकः कथयतिमूलम्-अतो य एतन्मनुते वदावदः, प्रत्यक्षमेकं हि मम प्रमाणम् । तचिन्त्यमानं न विवेकचक्षुषाम, शक्तं भवेत्सर्वपदार्थसिद्धयै ॥१॥ टीका-पूर्वोक्तनास्तिकमतविषय एवाऽवशिष्टमाह-अतो य इत्यादिना 'अतः'-अस्मात् कारणात् , 'या' 'वदावदः'| वाचालः, नास्तिक इत्यर्थः, 'एतत् '-वक्ष्यमाणं, 'मनुते'-मन्यते, सिद्धान्तत्वेनोरीकरोतीत्यर्थः, यत् 'ही'ति चरणपूत्तौं, निश्चये वा, मम मते 'एकम् '-अद्वितीय, 'प्रत्यक्षं प्रमाणम्'-प्रत्यक्षनामकं प्रमाणमस्ति, 'तत्'-पूर्वोक्तं कथनं, 'विवेकचक्षुषां'-विवेकदृष्टीनाम् , तत्त्वदृशामितिभावः, 'चिन्त्यमानं '-विचार्यमाणं सत् , 'सर्वपदार्थसिद्ध्यै'-सकलवस्तुसिद्धये, । 'शक्तं न भवेत् '-समर्थ भवितुम् न शक्नोति ॥ १॥ मूलम्-किं तर्हि सत्यं निजगाद नास्तिक-स्तदुत्तरं यच्छतु शुद्धमास्तिकः । यदेकशब्देन निगद्यमानं, तत्सत्पदं प्राहुरिति प्रवीणाः ॥२॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy