SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ त्रयोदशो धिकारा सवसार समुच्चये, 'सितादिवत् '-शर्करादितुल्यं, 'रसवन्तः'-रसयुक्ताः , 'नो'-नैव सन्ति, 'च'-पुनः, 'पवनादिवत् - वाय्वादितुल्यं, 'स्पर्शवंतः'-स्पर्शयुक्ता न सन्ति, तर्हि कीदृशाः संतीत्यादिना ' किंत्विति'-अपि त्वित्यर्थः, 'एककर्णेन्द्रियरूपग्राह्याः'-केवलं श्रोत्रंद्रियेणाऽऽदेयाः सन्ति, तथा ' ताल्लोष्ठेत्यादि'-ताल्वोष्ठजिवादिस्थानाभिधेयाः सन्ति, तथा 'स्वस्वोत्थेत्यादि'-'स्वस्मादुत्थाः-उत्पन्ना ये चेष्टादिविशेषास्तैर्गम्याः-ज्ञेयाः, आत्मीयात्मीयविभिन्नोत्पन्नचेष्टाविशेषबोध्या इतिभावः, सन्ति तथा ' स्वाभ्यासेत्यादि '-स्वाभ्यासे-निजाम्यासे, 'संप्राप्तम् '-उपस्थितं यत्कलं तेनाऽनुमेयाः-अनुमातुं योग्याः, स्वकीयाभ्यासोत्पन्नफलानुमेया इतिभावः, सन्ति तथा 'स्वनामेत्यादि '-स्वनाम्नां, स्वकीयसंज्ञानाम् , यत् 'याथार्थ्यम्'-सत्यत्वं, तस्य 'कथा'-कथनं, तस्याः 'निधायिनः'-धारिणः, 'नन्दनम् '-आनंदः, 'शौचनम् 'शोका, इत्यादिकथनधारिण इतिभावः सन्ति, तथा स्वीयेत्यादि 'स्वीयः'-स्वकीयः, 'यः' 'प्रतिद्वन्द्वी'शत्रुः, तस्य 'विनाशकारिणः'-नाशकाः, सन्ति तथा सद्य इत्यादि ' सद्यः'-शीघ्रमेव, 'विरोधिभ्यः'-वैरिभ्यः, 'उत्थः'-उत्पन्नः, 'निजावस्य'-स्वनाम्नः, 'अंत:'-अवसानं, येषां ते तथा विरोध्युत्पत्तौ सद्य एव स्वनामनाशका इतिभावोऽस्ति, फलितमाह-इतीदृशा इत्यादि इतीदृशाः'-इत्थं प्रकाराः शब्दाः, 'आस्तिकनास्तिकैरि'ति-आस्तिकै स्तिकैश्चेत्यर्थः, 'नरैः'-जनैः, 'च'-शब्दश्चरणपूत्तौं, 'वाच्याः '-वक्तव्याः सन्ति, कथंभूताः शब्दाः? 'सर्वजनप्रसिद्धाः' सर्वलोकेषु प्रख्याताः, पुनश्च कथंभूता ? 'स्वकार्योत्थगुणप्रधानाः '-स्वकीये-स्वस्मिन् उत्था:-उत्पन्ना ये गुणा:-माधुPार्यादयः तत्प्रधानाः स्वोच्चारणकालोत्पन्नगुणविशिष्टा भावः ॥ २१-२४ ॥ ॥९ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy