SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ B4-%%%E स्वस्वोल्थचेष्टादिविशेषगम्याः, स्वाभ्याससम्प्राप्तफलानुमेयाः। स्वनामयाचार्यकथानिधायिनः, स्वीयप्रतिद्वन्द्विविनाशकारिणः ॥ २३ ॥ सद्यो विरोध्युत्थनिजाह्वयान्ताः, इतीदृशाः सर्वजनप्रसिद्धाः। शब्दाः स्वकीयोत्थगुणप्रधाना, वाच्या नरैरास्तिकनास्तिकैश्च ॥२४ ॥ टीका-उक्तविषयमेव फलद्वारा स्पष्टयति-इत्यादीत्यादिना 'इत्यादिशब्दाः'-एतत्प्रभृतिकाः शब्दाः, 'ये बहवो भवन्ति'-अनेके सन्ति, 'ते'-पूर्वोक्ताः शब्दाः, ' ही 'ति निश्चयेन, ' इह '-अस्मिन्संसारे, 'जिह्वादिवत् '-जिह्वादितुल्यं, 'शब्दवन्तः'-शब्दयुक्ता न सन्ति, 'स्वर्णादिवत् '-स्वर्णादितुल्यं, 'रूपवन्तः '-रूपेण युक्ताः, 'मो'-नैव सन्ति, 'च'-पुनः, अस्मिन् संसारे, 'पुष्पादिवत् '-कुसुमादितुल्यं, 'गंधबंधुराः '-गंधयुक्ताः, 'नो'-नैव सन्ति, 'एव 'मिति १. यथा नन्दनमानन्दः शोचनं शोक इत्यादिकथनधारिणः। २ आनन्दप्रतिद्वन्द्वी अनानन्दः शोकादिः तेनानन्दनानानन्दस्य विनाशः क्रियते एकस्य नाशेऽपरस्योपपत्तौ वस्तूनां भावाभावी सिद्धौ एतौ तु तदा स्यातां यदा किञ्चिद्वस्तु स्यात् तत् सद्भावस्तु न साक्षात् स्वर्णादिवद्दश्यते सर्वत्र बेष्टयेव एषां सत्ता उपदिश्यते एवं नसमासादिमतामेषामभावरूपेण विनाशो लक्ष्यते । ३. सद्यः शीघ्र आनन्दादीनां विरोधिनः शोकादयः तेभ्यः शोकादिभ्य उत्थ उत्पन्नो निजाह्वयस्य आनन्दादीनां स्वनाम्नः आनन्देति शब्दस्यान्तोऽवसानमनुचारो येषां ते तथा अतएव यस्मिन् क्षणे यन्निमित्तानन्दोत्पत्तिस्तस्मिन् क्षणे तनिमित्तमेव शोकाद्युत्पत्तेरभावात् शोकादीनाम नुच्चार एवं सर्वशब्देष्वप्ययमेव धर्मोऽवसेयः । 0 %ANI
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy