________________
टीका-उक्तविषय एव पुष्टिमाह-स्वस्थमित्यादिना' हे बुध !'-चतुर !, नास्तिकं प्रति संबोधनम् , त्वम् ' मनः'चित्तम् , ' स्वस्थं सन्निधाय 'सावधानं कृत्वा, 'तत्त्वदृष्ट्या'-तत्त्वदृशा, पक्षपातविहीनयथार्थदृष्ट्येतिभावः, “एतं'-पूर्वोक्तं,
'विचारं कुरु'-विमर्श विधेहि, यत् , 'ज्ञानवता'-ज्ञानिना, 'उपदिष्टाः'-कथिताः, 'इमे'-प्रसिद्धाः, शब्दाः सन्ति 'ते'है पूर्वोक्ताः, 'अमी'-वक्ष्यमाणशब्दाः, भवताऽपि 'अपि' समुच्चयार्थस्तेन मया वाच्या एव पुनर्भवताऽपि भवद्वाच्या इत्यर्थः, 'यथार्थाः'-सत्याः, 'वाच्याः'-वक्तव्याः ॥ १३ ॥
मूलम्-आनन्दशोकव्यवहारविद्या, आज्ञाकलाज्ञानमनोविनोदाः।
न्यायानयो चौर्यकजारकर्मणी, वर्णाश्च चत्वार इमे तथाश्रमाः ॥१४॥ आचारसत्कारसमीरसेवा, मैत्रीयशोभाग्यबलं महत्वम् । शब्दस्तथार्थोदयभङ्गभक्ति-द्रोहाच मोहो मदशक्तिशिक्षाः ॥१५॥ परोपकारो गुणखेलना क्षमा, आलोचसङ्कोचविकोचलोचाः।
रागो रतिर्दुःखसुखे विवेक-ज्ञांतिप्रियाः प्रेमदिशश्च देशाः ॥१६॥ १. अर्थोऽभिधेयः शब्दोऽयमयं चार्थ इति च क उच्यते किं शब्दार्थयोः कश्चिदाकारादिरस्ति । २. अयं मे प्रियोऽयं | चाऽप्रियश्चेति यदा दृश्यते तदा तद्वस्तु एव दृश्यते परं येन कृत्वा प्रियशब्दः प्रवर्तते सगुणस्तु दर्शयितुं न शक्य एवमन्यत्राऽपि ।