SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ तत्त्वसार Kाधिकारः 1८८॥ टीका-विकारभावे पुष्टिमाह-अयमित्यादिना 'अयं '-पूर्वोक्तः, 'विकारः'-विकृतिः, तु, 'साक्षाद् बभूव'प्रत्यक्षत्वेनाऽजायत, 'यं'-पूर्वोक्तम् विकारम्, 'एते '-प्रसिद्धाः, 'सर्वे'-सकलाः, 'तज्ज्ञा:'-तत्त्वज्ञानिनः, 'निगदन्ति'कथयन्ति, अत्रैव पुष्टिमाह-त्वमित्यादिना 'त्वं पश्ये 'ति-त्वं विचारयेत्यर्थः, यतः चेत् '-यदि, 'दृष्टपदार्थकेष्वपि'अवलोकितवस्तुष्वपि, अदृष्टेषु तु का कथेत्यपि शब्दभावः, ' इहैव'-अस्मिन्नेव भवे, परजन्मनि तु किं कथनीयमित्येवशब्दभावः, 'इत्थं '-उक्तरीत्या, 'खानाम् '-इंद्रियाणाम् , 'मोहो भवेत् '-अज्ञानं स्यात् , भ्रान्तिः संजायत इतिभावः, 'तर्हि '-तदा, 'ही' ति निश्चयेन, 'इदं'-पूर्वोक्तम् , 'सर्वम् -कृत्स्नम् , ' इन्द्रियज्ञानम् '-श्रोत्रादिज्ञानम् , केन 'सता'-सत्पुरुषेण, 'सत्यं '-यथार्थम् , अस्ति, 'इतीववाच्यम् -इत्येतद् वक्तुं योग्यम् अस्ति, तर्हि किं ज्ञानं सत्यमिति दर्शयितुमाह-तदेवेत्यादि किन्तु ' तत्'-ज्ञानम् , ' सत्यं एव'-याथार्थमस्ति, ' यत्'-ज्ञानम् , 'इह '-अस्मिन् संसारे, 'दिव्यदृशः '-दिव्यदृष्टयः-दिव्यज्ञानयुक्ता इतिभावः, ' उपादिशन् '-उपदिष्टवन्ताः, कथंभृता दिव्यदृशः ? ' उपकारिणः'-उपकारकर्तारः, जगद्वितकारका इतिभावः, पुनश्च कथंभृताः ? 'गतस्पृहाः '-इच्छारहिताः, संसारस्थपदार्थवांछाविहीना इतिभावः ॥ ११-१२ ।। मूलम्-स्वस्थं मनस्त्वं बुध ! सन्निधाय, विचारमेतं कुरु तत्त्वदृष्टया । शब्दा इमे ज्ञानवतोपदिष्टा-स्तेऽमी यथार्था भवताऽपि वाच्याः ॥१३॥ १. नास्तिक ! । २. अपिसमुच्चयार्थस्तेन मया वाच्या एव पुनर्भवता त्वयाप्येते मद्वद्वाच्या इति ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy